भारत-चीनयो: सैन्यबालानां मध्ये सैन्यकूटनीतिं संपर्क-संवर्धनं च सन्दृभ्य प्रतिवर्षमेव ‘हैंड-इन-हैंड’ इत्याख्यो युद्धाभ्यास: समनुष्ठीयते । ऐषम: संयुक्तयुद्धाभ्यास: चीनस्य चंगतू मध्ये दिसम्बर-मासस्य 10 त: 23 दिनाङ्क-पर्यन्तं प्रचलिष्यति । सेनयोरुभयो: मध्ये नेदिष्ठ-सम्बन्धस्थापनं, सम्पर्कसमेधनञ्च अस्य युद्धाभ्यासस्य लक्ष्यमस्ति । देशद्वयस्य सैन्यगुल्मानां मध्ये संयुक्तयुद्धाभ्यासेन सामर्थ्य-संवर्धनमपि जायते । अस्मिन् युद्धाभ्यासे संयुक्तराष्ट्रस्य अधिदेशान्तर्गतमन्ताराष्ट्रिया