कीर्तिशेष: आजीवनं संस्कृतविद्यार्थी

महदिदं कष्टावहं यदनतिसाधारण:, साहित्य-सौहित्य-समूर्जित-मेधामण्डित:, संस्कृत-जगतो मूर्धन्यमनीषी, स्वस्तिवाचनमित्याख़्यस्य सार्वभौमसंस्कृतसमवायस्याध्यक्ष:,दैशिकेषु, वैदेशिकेषु च विद्वन्मण्डलेषु शिरोमणिमयमण्डनमण्डित:, गद्य-पद्य-चम्पू-विधासु सिद्धहस्त:, विश्वसमिन्नपि विश्वे  अधीति-बोधाचरण-प्रचारण-माध्यमै:  संस्कृतस्य प्रचारक:, संस्कृत-मातु: सेवक:, अस्माकं गुरुकल्प:, अनेकविशिष्टपुरस्कारभाक्,  शताधिकग्रन्थकर्ता, राष्ट्रिय-संस्कृत-संस्थानस्य संस्थापक:, तत्रैव निदेशकचर:, कामेश्वर-सिंह-संस्कृत-विश्वविद्यालयस्य दरभङ्गास्थस्य कुलपतिचर:,  प्रो.रामकरणशर्मा डिसम्बर-अष्टादशतिथौ शिवसायुज्यमगात्। श्रीशर्मण: संस्थित्या समस्तमपि संस्कृतोद्यानं दिग्दिगन्तं यावत् सुरभितम् अवर्तत।   आचार्यशर्ममहोदयस्य आध्यक्ष्ये स्वस्तिवाचन-समवायेन संस्कृत-मातु: सेवाया: अवसरो लब्ध: इति धन्यं मन्यामहे वयम्। तस्य विद्वत्ता-शालीनता-विनम्रता: सदा सर्वदा अनुकरणीया: च सन्ति अस्मादृशाङ्कृते ।तस्य निधनेन निखिलविश्वस्था: ससंस्कृतानुरागिणो जना: चेखिद्यमाना: वरीवर्तन्ते।अस्मिन् कष्टाकुलेSवसरे विभिन्नसंस्कृतानुरागिभि: शर्माणमुद्दिश्य स्वीयभावप्रसूनाञ्जलय: समर्पिता:-  विलोक्यन्तामिह तावत्- 
दिवङ्गताय रामकरणशर्मणे  श्रद्धाप्रसूनाञ्जलि:

डॉ. बलरामशुक्लवर्येण निजामुखपटले प्रोफेसर रामकरणशर्मणे को श्रद्धाञ्जलीन्नर्पयता  साहित्यअकेडमीद्वारा प्रकाश्यमानायां  ‘संस्कृत प्रतिभा’  इत्याख्यायां त्रैमासिकपत्रिकायां प्रकाशित: साक्षात्कार:  सार्वजनीनीकृत: 

 न्यूयॉर्कस्थया आनन्दाश्रमयोगसंस्थया शर्मवर्याय श्रद्धाञ्जलयस्समर्पिता:
न्यूयॉर्कस्थितया ‘आनन्दा आश्रम योग संस्थया’ स्वीये फेसबुक इति  समाजिक-साञ्चारिकामुख-पटले दिवङ्गताचार्याय रामकरणशर्मणे श्रद्धासुमनाञ्जलीन् समर्पयन्त्या  विलेखितं यद् ‘रामकरणशर्मवर्येण आयुर्वेदिक प्रैक्टिशनर इत्याख्य-पुस्तकेन साकम् आयुर्वेदस्य सर्वप्राचीनस्य चरकसंहिताग्रन्थस्य चापि अत्यद्भुतोSनुवाद-साधनार्थं भूरिवर्षाणि यावत् कार्यमाचरितम्।’
‘प्रोफेसर रामकरणशर्मणा  श्रीदिनेशचन्द्रजोशी’-महाशयेन च सम्भूय एव अष्टवर्षपूर्वं समाजे सविशेषं च संस्कृतजगति   आधुनिक-युगानुकूल-संस्कृत-पत्रकारिताया:  प्रतिष्ठापनार्थं तस्या: लोकोपयोगित्वं च जनमानसे प्रतिपादनार्थं संस्कृत-पत्रकारिता क्षेत्रे समधिकं कार्यं विहितम्। विगत-सर्धैक-शत-वर्षाणां संस्कृत-पत्रकारिता-क्षेत्रे  तत्रभवताम् आभ्यान्तरो यत्नो नव्य-पीठिकाया: समेषां  यूनां कृते अभिप्रेरणा सिद्धास्ति।
 
प्रोफेसर रामकरणशर्ममहोदयेन  स्वस्तिवाचनमिति समवायस्य त्रिवर्षपूर्तिसमारोहस्यावसरे  दिल्ल्यां  ‘भारतीयविद्याभवने’  संस्कृतस्य महत्ताविषये  स्वीय-सम्बोधनमित्थमाख्यातम्  आसीत् –