प्रधानमन्त्रिणा ‘जीसैट-एकादश’ इत्याख्योपग्रहस्य सफलप्रक्षेपणाय इसरो-वैज्ञानिका: वर्धापिता:

प्रधानमन्त्रिणा श्रीनरेन्‍द्रमोदिना जीसैट-एकादश इत्यस्य सफलप्रक्षेपणाय भारतीयान्तरिक्षानुसंधानसङ्घटनस्य वैज्ञानिका: वर्धापिता:। प्रधानमन्त्रिणोक्तं यत्  अस्माकम् अन्तरिक्षकार्यक्रमस्य  प्रमुखाधार: इसरो संघटनमस्ति । अनेनोपग्रहेण सुदूरवर्तिक्षेत्राणां कोटिशो भारतीयानां जीवने महत्परिवर्तनमायास्यति । भारतस्य सर्वाधिक-भारयुतस्यबृहत्तमस्य च अत्‍याधुनिक-सञ्चारोपग्रहस्य जीसैट-11’ इत्यस्य सफलप्रक्षेपणाय इसरो संघटनं वर्धाप्यते” । ISRO इत्याख्येन भारतीयान्तरिक्षानुसन्धान-संघटनेन अधुनावधिपर्यन्तं बृहत्तमःसर्वाधिक: भारयुक्तश्च G-SAT-11 इत्युपग्रह:  फ्रेंच गुयाना-त:  साफल्येन प्रक्षेपित:, ‘जी-सैट-एकादश इत्युपग्रहेण  देशस्यान्तरिक-क्षेत्रेषु तीव्रगतिकानि अन्तर्जालसौविध्यानि समुपपादयिष्यन्ते ।