प्रवासिभारतीया: देशोन्नतिगाथाया: दूता: वर्तन्ते- किरेनरिजिजू:

प्रवासिभारतीययूनाम् एकेन दलेन नवदिल्‍ल्यां केन्द्रीयगृहराज्‍यमन्त्रिणा किरेन-रिजिजू इत्यामुना साकं मेलनपूर्वकं सम्भाषणमाचरितम्। अष्टदेशेभ्य:  समागताः युवजना: विदेशमन्त्रालयस्य आन्ध्रप्रदेश-प्रशासनस्य च पक्षत:  समायोजिते  ”भारत को जानिये” ‘भारतम् अवगच्छतु’ इति कार्यक्रमस्यान्तर्गतं पञ्चविंशति-दिवसीय भारतयात्रायामागता: सन्ति। श्रीरिजिजूवर्येण प्रवासिभारतीया: युवका: प्रोदिता: यद्यदा ते नैजीं यात्रां सम्पाद्य प्रत्यावर्तयिष्यन्ति तदा तै: भारतस्य विकासगाथाया:  दूतत्वेन  भारतस्य स्वीयमङ्गलानुभवा: विश्वस्य पुरत: उपस्थापनीया:।  अनेन निगदितं यद्भारतप्रशासनं प्रवासिभारतीयानां महत्‍वमभिजानाति ,येन तान्  सततं सम्पर्कयितुं  एका सशक्‍तनीतिरपि समानीतास्ति। श्रीरिजिजू: न्यगादीद् यत्  प्रवासिभारतीयदेशोन्नतौ महत्‍वपूर्णा: सहभागिनो विद्यन्ते। ‘भवद्भि: भारतस्य यात्रावसरे इदं दृग्गोचरीकृतं स्याद् यद्देशे कथं  विकास-कार्याणि जाजायमानानि सन्ति।’ श्रीरिजिजूमहोदयेन प्रवासिभारतीययुवजनेभ्य:  देशे ग्‍लोबल इनिशिएटिव फॉर एकेडमिक नेटवर्क, व्रज योजना, मिशन शोधगंगा  सन्निभानां भूरि छात्रवृत्‍तियोजनानां विषयेषु अपि संसूचितम्। अमुना योजनानानां लाभ-स्वीकरणार्थमपि प्रवासिनो युवका: सम्प्रेरिता: ।