भारतीय अभियानस्य चन्द्रयान-द्वे इत्यस्य प्रक्षेपणस्य सज्जता अन्तिम चरणे वर्तते।

भारतीय अभियानस्य चन्द्रयान-द्वे इत्यस्य प्रक्षेपणस्य सज्जता  अन्तिम चरणे वर्तते। आंध्रप्रदेशस्य के श्रीहरिकोटायां सतीशधवनअंतरिक्षकेन्द्रत:  श्व: अपराह्ने प्रायः पादोन-त्रिवादने इदमभियानं जीएसएलवी-मार्क-त्रि  इति प्रक्षेप्यास्त्रेण प्रेशयिष्यते। प्रतीप गणना अद्य शायं आरप्स्यते।
 
चत्वारिंशदधिक-षट-शत-टन-मितं भारवहन-सक्षममिदं प्रक्षेपयास्त्रं चंद्रयान-द्वे इति  वलयाकार-कक्षाम्प्रति नेष्यति। भारतीय अंतरिक्ष अनुसंधान  संघटनानुसारेण चंद्रयान-द्वे, त्रयोविंशति-दिन-पर्यन्तं पृथ्‍वीम्  परिक्रमिष्यते । तदनु यानमिदं पृथ्‍व्या: प्रभावक्षेत्राद्बहिर्गमिष्यति । प्रक्षेपणस्य त्रिंशे दिवसे इदं यानं चंद्रमस: कक्षायां सम्प्राप्स्यति ततश्च त्रयोदश-दिवस-पर्यन्तं यानेन  चंद्रमस: परिक्रमा  विधास्यते।
 
चंद्रयानस्य लैंडर इति अवतारक: विक्रम: त्रिचत्वारिंशे  दिने ऑर्बिटर इत्यस्मात् पृथग् भविष्यति। तदनु इदं शनै: शनै:  चंद्रमसं निकषा सम्प्राप्स्यति। अस्मदीयो वार्ताहरो वर्णयति यत् अष्टचत्वारिंशे दिने   सितम्‍बर-सप्तम्यां यानमिदं चंद्रमस: दक्षिणीध्रुवे समवतरिष्यति  इति आशास्यते।