संस्कृतभाषायां विश्वस्य प्रथमा #CoronaAwarenessQuiz ‘कोरोनाविषयकजनचेतनाविवर्धिका प्रश्नोत्तरी’

· पेमाखाण्डु:, हरदीपसिंह: पुरी, सोनल: मानसिंह:, योगगुरु: बाबा रामदेव:, बिबेक: देबरॉय:, डॉ. ए. सूर्यप्रकाशश्चेत्यादया: सुप्रसिद्धा: नेतारो, मन्त्रिण:, कलाकारा:, प्रशासकाश्चापि अस्या: प्रतिस्पर्धाया: समर्थने ट्वीटर-सञ्जाले रीट्वीट् इति सन्देशस्य पुनःप्रसारणम् कृतवन्त:।

· पद्मश्रिया समलङ्कृतस्य विश्वप्रसिद्धस्य मनीषिमूर्धन्यस्य गुणगणगरिष्ठस्य सर्वशास्त्रनिष्णातस्य भागीरथप्रसादत्रिपाठीति ‘वागीश शास्त्रि’ वर्यस्य आध्यक्ष्ये प्रतियोगितेयं साफल्येन समनुष्ठितम् ।

· ‘लॉक डाउन’ 5.0 अर्थात् पूर्णपिधानस्य पञ्चम-चरणस्य आगामि-प्रश्नोत्तरीप्रतियोगिता ‘संस्कृतपत्रकारिताविषये समनुष्ठास्यते ।

निखिलेSपि देशे यत्र जनसामान्यै: लॉक डाउन 4.0 इति पूर्णपिधानस्य चतुर्थचरणस्य परिपालनं गृहेषु उषित्वा एव कृतं तत्रैव सर्वै: जनै: समसामयिकीं कोरोना-समस्यामवलम्ब्य जनचेतनावर्धनार्थं समायोजितायामद्भुतायां संस्कृत प्रतियोगितायां प्रतिभागोSपि विहित:। अस्या: अद्भुताया: ‘कोरोना-जनचेतनाविवर्धिकाया: प्रतिस्पर्धाया: समायोजनस्य विचार: संस्कृतवाङ्मये साहित्याकादेमी युवपुरस्कारेण पुरस्कृतस्य सुख्यातयुवकवे: युवराजभट्टराईवर्यस्य तस्य सुमित्रस्य जीवनजोशी वर्यस्य च मानसे समुद्भूत:। ध्यानास्पदमस्ति यत् युवराजभट्टराईवर्य: देशस्य सुख्यात:संस्कृतयुवकवि: वर्त्तते। तस्य “वाग्विलासिनी” “मनोऽनुरञ्जिनी” चेति संस्कृतकवितासंग्रहद्वयी संस्कृत जगति सविशेषञ्च युववर्गेषु प्रसिद्धा विद्यते । युवराजभट्टराईमहोदय: प्रत्यपादयत् यत् ‘प्रधानमन्त्रिण: श्रीनरेन्द्रमोदिन:, राज्य-प्रशासनानां चाध्यर्थनामनुसृत्य सम्पूर्णमपि राष्ट्रं विगत-अष्टषष्टि-दिवसेभ्य: पूर्णपिधानमनुपालयदस्ति । अत एव संगरोधस्य सञ्चाररोधस्य च राजाज्ञापालनपूर्वकं संस्कृतभाषाया: निरन्तरं प्रसारप्रचाराय किमपि क्रियात्मककार्यकरणमावयो: मानसपटलेSवर्तत ।’

संस्कृत-पत्रकारिता-योग-आयुर्वेद-वास्तुशास्त्रादिप्राच्यविद्यानां संवर्धसंरक्षणपुरस्सरं विश्वमञ्चे संस्कृतस्य प्रतिष्ठापनार्थं सुतरां संलग्नं ‘स्वस्तिवाचनम्’ इत्याख्यस्य समवायस्य उपाध्यक्ष: युवराजभट्टराईमहोदय: अग्रे न्यगादीत् यत् “कोरोना वैश्विकमहामार्या: प्रकोप: यथा जवीयस्या गत्या विवर्धमानोSस्ति तदास्मिन् सङ्कटाकुले क्षणे समैरपि जनै: आयुर्वेद:, योगश्च नियमितदिनचर्यात्वेन नूनमेवाभिस्वीकरणीयौ येन जनानां रोगप्रतिरोधसामर्थ्यं सुदृढं भवेत्। संस्कृतभाषाया: सम्यग् ज्ञानेन एव आयुर्वेदस्य योगस्य माहात्म्यमवगन्तुं शक्यते।” ‘स्वस्तिवाचनम्’ संस्थाया: सहसचिवेन जीवनजोशीमहाभागेन प्रोदीरितं यत् ” एतन्निभा ‘COVID-19 विषये संस्कृतप्रश्नोत्तरी प्रतियोगिता (क्विज)’ निखिलेSपि विश्वे न कयाचिदपि संस्थया समायोजितमस्ति । युगपदेव असौ न्यगदत् यदियं संस्कृतप्रश्नोत्तरीप्रतियोगिता मई-अष्टाविंशतित: एकत्रिंशीम् यावत् चतुर्दिवसेभ्योSन्तर्जालीयमाध्यमेन समनुष्ठिता । यस्यां प्रतियोगितायां सम्पूर्णदेशस्य १२८८ प्रतिभागिभि: भागो भजित: । अस्या: प्रतियोगिताया: वैशिष्ट्यमिदमवर्तत यत् यथा कोरोनाग्रस्तजनाय चतुर्दशदिवसानां ‘क्वारंटाइन’ इति एकान्तवासस्य उतवा सङ्गरोधस्य वा परिपालनमावश्यकं भवति तथैव प्रतियोगितायामपि प्रश्नानां संख्या चतुर्दशमिता एव सुनिश्चिता आसीत् । सर्वे प्रश्ना:, तेषां वैकल्पिकोत्तराणि चापि संस्कृते एव आसन् । यत्र अशेषदेशस्य जनै: रुचिपूर्वकं भागो भजित: ।”

जीवनजोशीमहाभाग: प्रोदैरयत् यत् ‘कोरोना अवेरनेस क्विज’ इत्याख्या कोरोना-जनचेतनाविवर्धिका प्रश्नोत्तरी ट्विटर-सञ्जाले अरुणाचलप्रदेशस्य मुख्यमन्त्रिणा पेमाखाण्डुवर्येण, केन्द्रीयनागरिकोड्डयनराज्यमन्त्रिणा (स्वतन्त्रप्रभार:) हरदीपसिंहपुरीमहोदयेन चापि ‘रीट्वीट’ इति विधानेन पौन: पुन्येन प्रसारित:। न केवलमेतावदेव धाराप्रवाहसंस्कृतसम्भाषणसमर्थेन सूक्ष्मलघुमध्यमोद्यममन्त्रालये राज्यमन्त्रिणा, मत्स्यपालनपशुपालनदुग्धोत्पादनमन्त्रालये चापि राज्यमन्त्रिणा प्रतापचन्द्रषडङ्गिना, सममेव सुप्रसिद्धया नृत्याङ्गनया, राज्यसभासांसदया च सोनलमानसिंहवर्यया, योगगुरुणा बाबारामदेवमहोदयेन चापि ‘कोरोना अवेरनेस क्विज’ इति प्रश्नोत्तर्या: रीट्वीट् इति पुनः प्रसार: विहित: । जीवनजोशीवर्य अग्रेSपि प्रतिपादितवान् यदिदमनुष्ठानं संस्कृतमाध्यमेन जनजागरणवर्धनस्य प्रथम: प्रक्रम: आसीत् । यस्य जनचेतनावर्धनानुष्ठानस्य सूचना प्रधानमन्त्रिण: आर्थिकसम्मर्शकपरिषद: (ईएसी-पीएम) इत्यस्या: अध्यक्षेण बिबेकदेबरॉयवर्येण, नेहरूस्मारकसंग्रहालयस्य पुस्तकालयस्य च उपाध्यक्षेण डॉ. ए. सूर्यप्रकाशमहोदयेनापि रीट्वीट् विधानेन प्रतियोगिताया: समर्थनं कृतम् ।

यदि अङ्कीयविवरणविषये ब्रूमहे चेत् समस्तदेशत: १२८८ प्रतिभागिजनैरस्यां कोरोना-जनचेतनाविवर्धनसंस्कृतप्रतियोगितायां भागो भजित: । येषु 12.5 % मिता: जना: संकायसदस्या:, 20.6 % मिता: शोधार्थिन:, 25.3 % मिता: स्नातकोत्तरीयच्छात्रा:, 13.4 % मिता: स्नातकीयच्छात्रा:, 12.8 % मिता: विद्यालयीयच्छात्रा: 15.4 % मिता: अन्यजनाश्च प्रतिभागं कृतवन्त: । कोरोनाविषये जनजागृतिवर्धनपरा विश्वस्य आदिमा संस्कृतप्रतियोगितेयं 81.2% मितै: जनै: सर्वोत्तमा, रुचिकरी, ज्ञानवर्धिका चेति प्रतिपादिता। जीवनजोशीवर्य: प्रावोचत् यत् ‘यदा अस्माभि: जना: परिपृष्टा: यदायत्यां भवन्तः संस्कृतपत्रकारिता, योगशास्त्रं, भारतीयदर्शनं, भारतीयसङ्गीतशास्त्रं, रामायणम्, महाभारतञ्चेति विषयेषु कं वा विषयमाश्रित्य आगामिप्रतियोगितायां प्रतिभागितां कर्तुमीहन्ते तदा 36.9 % जनै: ‘संस्कृतपत्रकारिता’ इति विषयिणी प्रश्नोत्तरीप्रतियोगिताया: चयनिता ।

‘स्वस्तिवाचनम्वाग्योगचेतनापीठम्’ इति संस्थयो:अध्यक्षेण प्रो.भागीरथप्रसादत्रिपाठी ‘वागीश शास्त्री’ वर्येण निगदितं यत् ”अतिशयहर्षातिरेकस्य विषयोSयं यत् ‘स्वस्तिवाचनम् संस्कृतवार्ताः’ द्वारा #CoronaAwarenessQuiz इत्यस्य सफलायोजनं कृतम् । समस्तराष्ट्रस्य अष्टाशीत्यधिक-द्वि-शतोत्तर-एकसहस्रं (१२८८) प्रतिस्पर्धकै: जनचेतनाविवर्धिकायां प्रतिस्पर्धायामस्यां प्रतिभागिता कृता । तेभ्यः समेभ्य: प्रतिस्पर्धकेभ्य: मदीया: भूरि भूरि मङ्गलकामा: । अद्यत्वे यदा कोरोनासङ्कटाकुले विश्वस्मिन्नपि विश्वे कोरोनानिर्मूलनार्थं भारतदेशस्य यशस्विन: प्रधानमन्त्रिण: दूरदर्शितान्विते कुशलनेतृत्वे कोरोनाविषाणुसंक्रमणं विरुध्य यद् युद्धं देशवासिभि: युध्यते तस्मिन् युद्धे वयं समेSपि नूनमेव सफला: भविष्याम: । प्रधानमन्त्रिणा श्रीमोदिना त्रिंशदुत्तरैक-कोटिकेभ्य: देशवासिभ्य: सेवाभावस्य सामूहिक-सङ्कल्प-सामर्थ्य-प्रदर्शनस्य आत्मनिर्भरताया: उत्साहसंचारस्य च यन्मन्त्र: प्रदत्त: तदेव वेदानामुपनिषदाञ्च सारभूतमस्ति । विदाङ्कृतमेव समेषां यत् प्रधानमन्त्री संस्कृतवाङ्मये निहितां दिव्यतां भव्यतामलौकिकताञ्च सम्यगनुभवति । अनेनैव कारणेन प्रधानमन्त्रिणा संस्कृतवाङ्मये समुपनिबद्धं योगायुर्वेदविज्ञानमन्ताराष्ट्रियस्तरे विश्वमञ्चे सुदृढतया पुनः प्रतिष्ठापितम्। सम्प्रति सर्वै: जनै: पूर्णपिधानस्य पञ्चम-चरणस्य (5.0 इत्यस्य) परिपालनमतोSप्यधिक-सतर्कतया विधेयम् । अस्मिन्नवधौ जनसामान्यै: गृहेषु एव उषित्वा परिवारजनै: साकम् अन्तर्जालीयमाध्यमेन रुचिपूर्वकं संस्कृतभाषाशिक्षणं कर्तव्यम् ।”