लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-वर्यया ‘स्वस्तिवाचनम् संस्कृतवार्ता’-वाहिन्या: वेबफलकं लोकार्पितम्।

दिल्लीस्थस्य भारतीयजनसञ्चारसंस्थानस्य एकपञ्चाशे दीक्षान्त-समारोहावसरे मुख्यातिथित्वेन उपस्थितया लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-महोदयया स्वस्तिवचनम् संस्कृत-वार्ता-वाहिन्या:  वेबफलकं  www.sanskritnews.com लोकाय समर्पितम् । अस्मिन्नवसरे भारतीयजनसंचारसंस्थानस्य निदेशकेन  श्रीमता के. जी. सुरेश-वर्येण प्रोदीरितं यद्  “विश्वस्मिन्नपि विश्वे ऐदम्प्राथम्येन केनचिदपि शैक्षणिक-संस्थानेन इत्थं समर्हणीया:  युवजना: पूर्णतोदृशा आधुनिकप्रविधीनां शिक्षण पुरस्सरंसंस्कृतपत्रकारितायां  सुदीक्षिता: ।  श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च  सम्भूय सञ्चालित: ‘त्रैमासिक: संस्कृत-एडवान्स-डिप्लोमा-पाठ्यक्रम:’ समाजे संस्कृतपत्रकारिताया: मार्गोद्घाटनपूर्वकं  संस्कृताध्येतृ-युवकान् रूढ़िवादिताया:  दूरे कृत्वा सशक्तजीविकाया: क्षेत्रे पदार्पणार्थं सहायक: सिध्यति ।

”संस्कृतपत्रकारितायां यूनामुपक्रमं संवीक्ष्य, अस्य सार्थकताञ्च समुद्दिश्य बॉलीवुड चलच्चित्रनिर्देशकेन इम्तिआज़ अली इत्यामुनापि  ‘स्वस्तिवचनम् संस्कृत वार्ताः’ वाहिन्यै  स्वीय- शुभकामना: वितरिता:।