समनुष्ठिते छन्दोरचनाकार्यशाला कवीगोष्ठी च

मयराष्ट्रे (मेरठे) चौधरीचरणसिंहविश्वविद्यालयस्य बृहस्पतिसभागारे उत्तरप्रदेशसंस्कृतसंस्थानमिति पक्षत: वसन्तपञ्चम्या: शुभावसरमभिलक्ष्य जनवरी-ऊनत्रिंश्यां बुधवासरे संस्कृतकविसमवाय:, छन्दोरचनाप्रशिक्षणकार्यशाला च समायोज्यताम। कार्यक्रमोSयं भागद्वये समनुष्ठित:। यत्र लघुबालकेभ्य: किशोरेभ्यश्च संस्कृते प्रचलितानि विख्यातानि छन्दांसि प्रशिक्षणपुरस्सरं पाठितानि। प्रशिक्षणावसरे स्वरलयतालयतततिगणबोधादिभि: साकं छन्दोगानविषये छात्रा: समीचीनतया प्रतिबोधिता:। येन छात्रेषु संस्कृतकाव्यलेखनस्य प्राचीनछन्दोबद्धविधानस्य अवगमनं भवेत्। ततश्च कमपि विषयमधिकृत्य छन्दोबद्धरचनां कर्तुं छात्रा: प्रोदीरिता:। भूरिच्छात्रै: विविधविषयेषु छन्दोबद्धरचनाश्चापि सम्प्रस्तुता:। तदनु एकवादने मध्याह्नभोजनानन्तरं कविसमवाय: समारब्ध:। कविसमवायेSस्मिन् दिल्ल्या:, एनसीआर इति राष्ट्रियराजधानीक्षेत्रात्, उत्तरप्रदेशस्य च विविधभगेभ्य: नैके सुप्रसिद्धा: प्रतिष्ठिताश्च संस्कृतकवय: समाकारिता: अवर्तन्त। कविसमवायोSयं पद्मश्री: इति सम्मानभाजनीभूतेन भाति मे भारतमिति सुविश्रुतभारतचित्रणपरस्य काव्यकारेण सुविख्यातेन काव्यर्षिणा डॉ.रमाकान्तशुक्लवर्येण अध्यक्षित:। एतेषां सान्निध्ये अष्टादशप्रायै: संस्कृतकविभि: विविधान् प्रासङ्गिकान् विषयान् अवलम्ब्य काव्यपाठ: कृत:, यद्धि श्रोतृसमवायेन भृशं श्लाघित:।

कविसमवायस्य अवसानात् प्राक् निजाध्यक्षीयवक्तव्ये श्रीमता शुक्लवर्येण कविसभायां समुपस्थितान् जनान् सम्बोधयता प्रतिपादितं यत् ‘वस्तुतः संस्कृतमेव भारतस्य वैश्विकमभिज्ञानमस्ति। अतः बालेषु आशैशवादेव संस्कृतशिक्षणस्यावसरो देय: येन आयत्यामपि भारतस्य ज्ञानशेवधि: सर्वथा सर्वदा च सुरक्षितो भवेत्।’ अत्रावसरे शैशवेSभ्यस्तविद्यानामिति कालीदासीयां सूक्तिमुद्धरता अमुना सबलं प्रतिपादितं यत् बालेषु शिक्षणस्य पाठाभ्यासस्य च संस्कारा: शैशवे एव प्रदत्ता: सुचिरं तिष्ठन्ति। अतः सर्वै: एतद्विषये यतनीयम्, सहैव शुक्लमहाभागेन सर्वकारोSपि परामृष्ट: यत् स: समपक्षपातीभूय अन्यविषयेषु इव संस्कृतस्याभ्युन्नतयेSपि निजकोषद्वारमुद्घाटयेदिति। ततश्च असौ प्रावोचत् यत् वसन्तपंचम्या: पूर्वस्मिन्नहनि संस्कृतकविसम्मेलनरूपस्य सारस्वतानुष्ठानस्यानुष्ठानं संस्कृतमातु: वाग्देव्या: भारतभारत्या: चरणकमलयो: समर्चनास्ति। युगपदेव असौ न्यगादीत् यत् देशस्य अभिज्ञानभूताया: ऋषिगणसाधिताया: देवगणपूतायाश्च सर्वभाषाजनन्या: संस्कृतमातु: जनसामान्येषु प्रचारप्रसारदिशि चापि महत्वपूर्ण: पादक्षेप: वर्तते। अस्मिन् कविसमवाये डॉ. रमाकान्तशुक्ल:,डॉ. सन्तोष, डॉ.भारतेंदु पाण्डेयः, डॉ.सर्वेश त्रिपाठी, डॉ.वागीशदिनकर:, डॉ.तुषाशर्मा, डॉ. शैलेशकुमारतिवारी, डॉ. रामविनयसिंह:, डॉ.निरंजनमिश्र:, डॉ.अरविन्दकुमारतिवारी,डॉ.वेदव्रतशास्त्री,डॉ.हिमांशु गौड:, डॉ. मधुसूदन:, श्रीयुवराजभट्टराई च एते कवय: हृदयावर्जकं स्वकाव्यपाठं प्रस्तुतवन्त:।

अस्मिन्नवसरे डॉ.अरविन्दकुमारतिवारीवर्यस्य प्रधानसम्पादकत्वे प्रकाश्यमानाया: काव्यामृतवर्षिणीत्याख्याया: पत्रिकाया: वसन्ततिलकाङ्कः कविसमवाये चौधरीचरणसिंहविश्वविद्यालयस्य बृहस्पतिभवने वसन्तपञ्चमीमभिलक्ष्य सुरभारतीसमर्चनायै लोकायार्पितः।