एकविंश्या: शताब्द्या: प्रस्थानत्रय्या: भाष्यकार: स्वामी भद्रेशदासवर्य: उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा “आचार्यप्रवर” इति पुरस्कारेण सुबहुमानेन सम्मानित:।

‘अक्षरपुरुषोत्तमदर्शनम्’ – नूतन वेदान्तदर्शनस्य लखनऊनगरस्य अटलबिहारिबाजपेयी साइन्टिफिक कन्वेन्शन सेन्टर इत्यत्र  सम्मानसमारोह: समायोजित:। वेदान्त-विद्याक्षेत्रे विशिष्टावदानार्थं समायोजिते सम्मानसमारोहे चत्वारिशत्तोSप्यधिक-विश्वविद्यालया: सम्मिलिता: । 
भारतवर्षस्य अतिशय प्राचीना वेदान्तपरंपरायां नैकै: आचार्यै: उपनिषद्ब्रह्मसूत्र-श्रीमद्भगवद्गीता चेति शास्त्रत्रय्यां विभिन्नतत्त्वदर्शननान्यनुसरद्भि:   भाष्यग्रन्था: विरचिता:, येषु आदिगुरु: शंकराचार्य: अद्वैतानुसारेण सर्वप्रथमभाष्यं व्यरचयत्। तदनु रामानुजाचार्य-मध्वाचार्य-निम्बार्काचार्य-वल्लभाचार्य-प्रभृतिभि:  विशिष्टाद्वैत-द्वैत-द्वैताद्वैत-शुद्धाद्वैतादि-मतानि अनुसृत्य भाष्यग्रन्था: विरचिता: । अन्तिमभाष्यकार-रूपेण चैतन्यमहाप्रभो: अचिन्त्यभेदाभेदमतमनुसृत्य बलदेवविद्याभूषण-द्वारा एकोनविंश्यां  शताब्द्यां ब्रह्मसूत्रे भाष्यम् विरचितम्। तदनु विगत-सर्धैक-र्वर्षेषु प्रस्थानत्रय्यां नूतनदर्शनस्यानुसरणपरं  भाष्यं नैव  विरचितम् ।

संस्कृतभाषाविषये तत्त्वज्ञानक्षेत्रे च वर्तमानयुगीन-ऐतिहासिक-कार्यस्य कृते उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा श्रीदिनेशशर्मणा “आचार्यप्रवर” सम्मान: प्रदत्त:।

विश्ववन्दनीयस्य सन्तवर्यस्य परमपूज्यप्रमुखस्वामिन: महाराजस्य प्रेरणया स्वामिना भद्रेशदास-वर्येण एकविंश्या: शताब्द्यारम्भे प्रस्थानत्रय्यां  भाष्यग्रन्था:  विरचिता:, मनीषिणां मन्तव्यमस्ति यत् अस्य शताब्द्या:  वेदान्तदर्शनस्य इतिहासस्य सर्वाधिक-महत्त्वपूर्णा घटनास्ति । स्वामिना भद्रेशदासवर्येण  ‘स्वामिनारायण-सिद्धांतसुधा’ नामक: वादग्रन्थश्चापि  प्रणीतो वर्तते । 

भगवत:  स्वामिनारायणस्य उपदेशान् अनुसृत्य उपनिषद्-ब्रह्मसूत्र-भगवद्गीता-शास्त्रेषु प्रमाणपुरस्सरं  संस्कृतभाषायां परम्परागतशास्त्रशैल्यां विरचितेSस्मिन् ग्रन्थे ‘अक्षरपुरुषोत्तम दर्शनस्य प्रतिपादनं कृतमस्ति । देश-विदेशेषु भूरिविद्वद्भिश्च  तस्येदं कार्यं युगप्रवर्तित्वेन प्रतिपादितम् अस्ति ।