प्रधानमन्त्री भारतीय-संसदीय-निर्वाचनायोजनमपि ‘लोकतन्त्रस्य कुम्भत्वेन पर्यभाषयत्।

भारतीय-संस्कृतिक-सम्बन्ध-परिषदा अद्य  दिल्ल्यां प्रवासि-भारतीय-केन्द्रे १८८ देशानां  शिष्टमण्डलीय-सदस्यानां , स्वागताभिनन्दनार्थं विशिष्टमायोजनमनुष्ठितम्। एतै: सदस्यै: प्रयागराजे कुम्भमेलके  प्रतिभागिता विहिता आसीत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी  विदेशमन्त्री श्रीमती सुषमास्वराजवर्या च १८८ शिष्टमण्डलीयै: सदस्यै: साकं  ऐतिहासिक-सामूहिक-चित्राङ्कने सहभागं कृतवन्तौ। 

प्रधानमन्त्रिणा समुपस्थितं जनसमूहं सम्बोधयता  प्रत्यपादि यदसौ प्रयागराज-कुम्भमलकात् सद्यस्समागतै:  शिष्टमण्डलीयै: सदस्यै: सार्धं सम्मेल्य प्रफुल्लोSस्ति।अमुना प्रोदितं यद् यावत् कश्चनापि कुम्भमेलके सहभागितां नैव कुरुते तावत्तस्य सर्वतोदृशा श्लाघामपि नैव विदधाति। यन्मेलकमिदं कियद्बृहद्रिक्थमस्ति। अमुना प्रोदीरितं यदियं परम्परा पारेसहस्रं वर्षेभ्यो निर्बाधगत्या प्रचलति। असौ अतोSपि न्यगदद्यत् कुम्भमेलकं यावत् समाज-परिष्कारेण सम्बध्यते तावदेव आध्यात्मिकतया सममपि अस्य मेलकस्य सम्बन्धो वर्तते। श्रीमोदिनाSग्रे भणितं यत् कुम्भ-मेलकं भविष्यस्य कृते प्रारूपरेखा निर्माणार्थं, समुन्नते: समीक्षार्थं  चाध्यात्मिक-गुरुजनानां,  समाज-समुन्नायकानां च मध्ये चर्चाविषय:  संवृतोSस्ति। प्रधानमन्त्री प्रत्यपादयद्यत् सम्प्रति कुम्भमेलके आधुनिकताया:  प्रौद्योगिक्याश्च विकासेन सह आध्यात्मिकताया:, सांस्कृतिक-चेतनायाश्च  सम्मिश्रीकरणस्य प्रयासा: विधीयमाना: सन्ति। असौ अभाणीद् यद् विश्वं कुम्भमेलकस्य  आधुनिकीकरणाय,  समृद्धरिक्थाय च भारतं सम्मानयिष्यति। अनेन अविश्वाद् आगतेभ्य:  शिष्टमण्डलेभ्यो धन्यवादवचोभि: कृतज्ञता समर्पयता प्रोक्तं यत्तेषां सहभागिता कुम्भस्य साफल्यस्य एक: महत्वपूर्ण: क्षण: अस्ति। 

प्रधानमन्त्री भारतीय-संसदीय-निर्वाचनायोजनमपि ‘लोकतन्त्रस्य कुम्भत्वेन’ पर्यभाषयत्। अमुनोदितं यत् कुम्भमेलकमिव  भारतीय संसदीय-निर्वाचनमपि स्वीय-सुविशाल-स्तरे पूर्णनिष्पक्षतया साकं सर्वतोदृशा समस्तविश्वाय  प्रेरणास्रोतो भवितुमर्हति। अमुना प्रोदितं यत् समस्तविश्वत: जनै: निश्चप्रचमेव  भारतमागत्य भारतस्य संसदीय-निर्वाचन-पद्धते: सञ्चालनमवलोकनीयम्।