विधे किं कृतम् ?

विधे किं कृतम् ?

डॉ. अरविन्दकुमारतिवारी

रचना दिनाङ्क: 

०८.०७.२०२० 

यं व्यजानां सुबन्धुं स मे बान्धवोऽ-

बान्धवोऽभूद् बली हा विधे ! किं कृतम् ? ।। १ ।।

 

यं सुशिष्यं व्यजानां स शिष्यो गुरुः ।

जात एवाधुना मे विधे ! कृतम् ? ।। २ ।।

 

यं व्यजानां स्वमित्रं तु चन्द्रं नवम् ।

जायतेऽसौ शनिः हे विधे! किं कृतम् ? ।। ३ ।।

 

यं व्यजानां शुकं पञ्जरे पालयन् ।

वायसोऽभूद् वयस्यो विधे ! किं कृतम् ? ।। ४ ।।

 

यं च वैद्यं व्यजानां सुयोग्यं श्रुतम् ।

सैष रुग्णोऽभवद् हे  विधे! किं कृतम् ? ।। ५ ।।

 

यां व्यजानां निशायां प्रियां स्वां शुभाम् ।

सा करोनाऽभवत् हा विधे! किं कृतम्  ? ।। ६ ।।

 

यं तडागं व्यजानां जलैः पूरयन् ।

द्वेष्टि सैषोऽरविन्दं विधे! किं कृतम् ? ।। ७ ।।

___________*****___________