राफेल ते स्वागतम्!!!

राफेल ते स्वागतम्!!!

रचयिता – डॉ. अरविन्दकुमारतिवारी

 

रचना दिनाङ्क: 

२९.०७.२०२०

 

 

मैत्रीं दर्शयतीव हन्त पुरतः पृष्ठे खलः क्षुरिकां

तत्पश्चाच्च बलेन सीम्नि यतते नीचो यथा सर्वथा।

चीनोsयं यतते तथैव दनुजो हर्तुं धरां मित्र रे!

कुर्या नाशनमस्य सत्वरमये राफेल! ते स्वागतम् ।। १ ।।

 

लब्ध्वा सैन्यमयं तनोति बहुशः स्वां विस्तृतिं शक्तितः

कृत्याकृत्यविवेकबुद्धिरहितो नीचो महापातकः।

भूत्वा त्वं हनुमान् खलस्य रचितां लंकां सखे! ज्वालयन्

राष्ट्रं रक्ष निपात्य शत्रुमभितो राफेल! ते स्वागतम् ।। २ ।।

 

पाकोsयं च सहायकोsस्य गुलिकाः सीम्नीव वर्षन् खलो

नित्यं शान्तिमपाकरोति खलराट् ब्रूयामहं किं सखे!

एकं वज्रसमं मिसाइलमये तन्मस्तके पातय

नातंकं तनुतां तथैव कुरु भो राफेल! ते स्वागतम् ।। ३ ।।

 

मुग्धा भारतजा करोति जनता ते नामजापं मुहुः

सर्वद्रोहिविनाशक! द्रुतमहो लक्ष्यं निजं साधय।

द्रष्टव्यो भुवि राममन्दिरशिलान्यासश्शुभः श्रद्धया

शत्रोर्गर्वविमोचनं कुरु सखे! राफेल! ते स्वागतम् ।। ४ ।।

 

गर्जन् शत्रुकुलानि मित्र! बलवन्! तार्क्ष्योपम प्रार्थित

फ्रांसाद् भारतवर्षभूमिसदनं चागत्य शत्रुं श्रुतम्।

हन्तु सज्ज! महानुभाव! समये सन्दर्शयन् कौशलं

नूनं संहर संहरेति खलजिद्! राफेल! ते स्वागतम् ।। ५ ।।

___________*****___________