sanskritnews

विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति।

विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति। डॉक्‍टर राजकुमार-रंजन-सिंहस्य आसियान सचिवालयस्य, इंडोनेशिया देशस्य च एषा प्रथमा यात्रा अस्ति। द्वि-दिवसीय-यात्रा अवसरे, आसियान-सचिवालयस्य कार्यक्रमान् अतिरिच्य, श्रीसिंह: इंडोनेशिया देशेन साकं द्विपक्षीय सम्बन्धान् सुदृढीकरणे अपि मन्त्रणां करिष्यति। श्रीसिंह: भारतीय-प्रवासि-जनैः साकमपि सम्भाषणम् आचरिष्यति। विदेश-राज्य-मन्त्री आसियान-भारत-वार्ता- सम्बन्धानां त्रिंशत्तमीं वर्षग्रन्थिमुपक्ष्य आसियानस्य महासचिवेन श्री लिम जॉक होई […]

विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति। Read More »

राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या:वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्।

राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या: प्रतिवेशि-राज्येषु परालीति प्रज्वालनस्य कारणेन विशेषरूपेण शीतकाले वर्धिष्यमाण-वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्। मुंबय्याम् एकस्मिन् आयोजने असौ प्रावोचत् यत् इंडियन ऑयल समवायेन हरियाणाया: पानीपत-मध्ये एक-लक्ष-लीटर मितस्य बायो-एथेनॉल इन्धनस्य, सार्ध-शत टन-मितस्य बायो-बिटुमेन इत्यस्य च दैनिकोत्पादन-क्षमता-युता परियोजना प्रारब्धा अस्ति। श्री गडकरी उदैरयत् यद् अनेन उत्पादनेन देश: ईंधनस्य विषये आत्मनिर्भर: भविष्यति। असौ उक्तवान् यत् ये कृषकाः परालीति ज्वालयन्त: सन्ति,

राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या:वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्। Read More »

एशियाचषकक्रिकेट्स्पर्धाशृङ्खला

ऐषम: एशिया-चषकीय-क्रिकेट्-स्पर्धा-शृङ्खलायाः प्रारम्भ: ह्य: श्रीलंका-अफगानिस्तानयो: मध्ये क्रीडितेन द्वन्द्वेन सञ्जातः। यत्र अफगानिस्तान-देशेन एशिया-चषक-क्रिकेट्-स्पर्धा-शृङ्खलाया: प्रथमे द्वन्द्वे श्रीलंकादलं पराभूतम्। अफगानिस्तान-देशेन पूल-बी इति वर्गस्य द्वन्द्वे अष्ट-क्रीडकै: विजयम् अधिगम्य क्रिकेट्-स्पर्धा-शृङ्खलायाम् उत्कृष्ट: प्रारम्भ: कृत: अस्ति। ध्येयम् अस्ति यद् ऐदम्प्रथम्येन अफगानिस्तान-दलेन विंशतिं प्रतिविंशतिः क्रिकेट्-स्पर्धायां श्रीलंकादलं पराजेतुं साफल्यम् अधिगतम् अस्ति। प्रथमं क्रीडता श्रीलंका-दलेन पञ्चोत्तर-एकशतं धावनाङ्का: एव समर्जिता: आसन्। प्रत्युत्तरे अफगानिस्तानेन दश कन्दुक-क्षेप-चक्रेषु एव

एशियाचषकक्रिकेट्स्पर्धाशृङ्खला Read More »

भल्लक्षेपणे नीरजस्य स्वर्णिम-साफल्यम्

क्रीडा-क्षेत्रे भारतस्य कृते मोदावहो विषयो वर्तते यत् टोक्यो ओलंपिक क्रीडा-स्पर्धानां स्वर्ण-पदक-विजेता नीरज-चोपड़ा लुसाने डायमंड लीग सम्मेलने दशमलवोत्तर शून्य अष्टाधिक-नवाशीति-मीटर-मितं दूरं यावत् सर्वश्रेष्ठ-भल्ल-क्षेपणेन साकम् एकम् अपरमपि स्वर्णिम-साफल्यम् अधिगतवान्। भल्लक्षेपणे नीरजस्य स्वर्णिम-साफल्यम् अपरत्र च भारतस्य कृते जूडो क्रीडायामपि प्रथमं स्वर्ण पदकम् आगतम्। महिलानां सप्त-पञ्चाशत्-किलोग्राम-भार-वर्गे कैडेट-विश्व-विजेतृ-स्पर्धायां स्वर्णपदकं विजित्य लिंथोई चनंबम इत्यनया इतिहास: विरचित:। कैडेट-विश्वविजेतृस्पर्धायां स्वर्णपदकम्

भल्लक्षेपणे नीरजस्य स्वर्णिम-साफल्यम् Read More »

संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत:।

संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत: । परमाणु-अप्रसार-सन्धे: उद्देश्य: परमाणु-अस्त्राणां प्रसारस्य निषेधी-करणम् अस्ति। प्रति-पञ्च-वर्षम् अस्य परमाणु-अप्रसार-सन्धे: समीक्षा विधीयते। रूस-देशेन यूक्रेन-देशस्य परमाणु संयन्त्राणां, विशेष-रूपेण ज़ापोरिज्जिया इति क्षेत्रस्य निकटे सैन्य-गतिविधीनां विषये गंभीरा चिंता प्रकटिता अस्ति। येन तेन परमाणु-अप्रसार-सन्धे: प्रस्तावे आपत्ति: व्यक्तीकृता अस्ति। संयुक्तघोषणास्वीकरणाद्रूसदेश: पृथग्भूत: परमाण्वप्रसारसन्धिप्रस्तावे आपत्ती रुसस्य

संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत:। Read More »

आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति।

आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति। प्रस्तावस्य स्वीकृते: पश्चात् गोधूमपिष्टचूर्णस्य निर्यात: प्रतिबंधित: भविष्यति, येन दैशिकापणेषु गोधूमपिष्टचूर्णस्य मूल्यवृद्धौ नियंत्रणं सुगमं भविष्यति। साकमेव समाजस्य नि:शक्त-वर्गीय-जनानां कृते खाद्यसुरक्षा सुनिश्चिता भविष्यति। रूस-यूक्रेन-देशौ गोधूमस्य बृहत्तमौ निर्यातकौ देशौ स्त:। एतौ देशौ विश्वे गोधूमस्य चतुर्थांशं यावत् आपूर्तिम् कुरुत: । एतयोः देशयो: मध्ये प्रवर्तमान-संघर्ष-कारणेन गोधूमस्य आपूर्ति: प्रभाविता अस्ति। अत

आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति। Read More »

संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य

संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य युवराज: भट्टराई

संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य Read More »

संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः)

संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः) डॉ. नवलता, पूर्वसंस्कृतविभागाध्यक्षा, विक्रमाजीतसिंहसनातनधर्ममहाविद्यालयः कानपुरम्

संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः) Read More »