sanskritnews

संस्कृतभाषायां विश्वस्य प्रथमा #CoronaAwarenessQuiz ‘कोरोनाविषयकजनचेतनाविवर्धिका प्रश्नोत्तरी’

· पेमाखाण्डु:, हरदीपसिंह: पुरी, सोनल: मानसिंह:, योगगुरु: बाबा रामदेव:, बिबेक: देबरॉय:, डॉ. ए. सूर्यप्रकाशश्चेत्यादया: सुप्रसिद्धा: नेतारो, मन्त्रिण:, कलाकारा:, प्रशासकाश्चापि अस्या: प्रतिस्पर्धाया: समर्थने ट्वीटर-सञ्जाले रीट्वीट् इति सन्देशस्य पुनःप्रसारणम् कृतवन्त:। · पद्मश्रिया समलङ्कृतस्य विश्वप्रसिद्धस्य मनीषिमूर्धन्यस्य गुणगणगरिष्ठस्य सर्वशास्त्रनिष्णातस्य भागीरथप्रसादत्रिपाठीति ‘वागीश शास्त्रि’ वर्यस्य आध्यक्ष्ये प्रतियोगितेयं साफल्येन समनुष्ठितम् । · ‘लॉक डाउन’ 5.0 अर्थात् पूर्णपिधानस्य पञ्चम-चरणस्य आगामि-प्रश्नोत्तरीप्रतियोगिता ‘संस्कृतपत्रकारिताविषये समनुष्ठास्यते ।

संस्कृतभाषायां विश्वस्य प्रथमा #CoronaAwarenessQuiz ‘कोरोनाविषयकजनचेतनाविवर्धिका प्रश्नोत्तरी’ Read More »

राष्ट्रपते: रामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘दि रिपब्लिकन एथिक’ अथ च ‘लोकतन्त्र के स्वर’ इत्यनयो: पुस्तकयो: लोकार्पणम्

दिसम्बरस्य अष्टमे दिने नवदिल्लीस्थे विज्ञानभवने राष्ट्रपते: श्रीरामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘लोकतंत्र के स्वर’ अथ च ‘द रिपब्लिकन एथिक’ इत्याख्ययो: पुस्तकयो: लोकार्पणम् उपराष्ट्रपति: एम. वेंकैयानायडु: करिष्यति ।  सूचनाप्रसारणमन्त्रालयस्य प्रकाशनविभागेन पुस्तके प्रकाशिते स्त:। इदं पुस्तकद्वयं राष्ट्रपते: प्रथमवर्षस्य कार्यकालावधौ तस्य त्रिचत्वारिंशदुत्तर-द्वि-शत भाषणेभ्य: प्रचितानां पञ्चनवति भाषणानां सङ्ग्रहो विद्यते ।  पुस्तकद्वयमिदं  राष्ट्राय सम्बोधनम्, भारतस्य वैविध्यम्, विश्वस्य वातायनम्, शिक्षितभारतम्, सक्षमभारतम्, जनसेवाया: धर्म:, रक्षकाणां सम्मान:,विधे: मूलभावना, विशिष्टतायै मान्यता चेति अष्टभागेषु विभाजितं वर्तते ।

राष्ट्रपते: रामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘दि रिपब्लिकन एथिक’ अथ च ‘लोकतन्त्र के स्वर’ इत्यनयो: पुस्तकयो: लोकार्पणम् Read More »

समनुष्ठिते छन्दोरचनाकार्यशाला कवीगोष्ठी च

मयराष्ट्रे (मेरठे) चौधरीचरणसिंहविश्वविद्यालयस्य बृहस्पतिसभागारे उत्तरप्रदेशसंस्कृतसंस्थानमिति पक्षत: वसन्तपञ्चम्या: शुभावसरमभिलक्ष्य जनवरी-ऊनत्रिंश्यां बुधवासरे संस्कृतकविसमवाय:, छन्दोरचनाप्रशिक्षणकार्यशाला च समायोज्यताम। कार्यक्रमोSयं भागद्वये समनुष्ठित:। यत्र लघुबालकेभ्य: किशोरेभ्यश्च संस्कृते प्रचलितानि विख्यातानि छन्दांसि प्रशिक्षणपुरस्सरं पाठितानि। प्रशिक्षणावसरे स्वरलयतालयतततिगणबोधादिभि: साकं छन्दोगानविषये छात्रा: समीचीनतया प्रतिबोधिता:। येन छात्रेषु संस्कृतकाव्यलेखनस्य प्राचीनछन्दोबद्धविधानस्य अवगमनं भवेत्। ततश्च कमपि विषयमधिकृत्य छन्दोबद्धरचनां कर्तुं छात्रा: प्रोदीरिता:। भूरिच्छात्रै: विविधविषयेषु छन्दोबद्धरचनाश्चापि सम्प्रस्तुता:। तदनु एकवादने मध्याह्नभोजनानन्तरं कविसमवाय: समारब्ध:।

समनुष्ठिते छन्दोरचनाकार्यशाला कवीगोष्ठी च Read More »

भारतीय अभियानस्य चन्द्रयान-द्वे इत्यस्य प्रक्षेपणस्य सज्जता अन्तिम चरणे वर्तते।

भारतीय अभियानस्य चन्द्रयान-द्वे इत्यस्य प्रक्षेपणस्य सज्जता  अन्तिम चरणे वर्तते। आंध्रप्रदेशस्य के श्रीहरिकोटायां सतीशधवनअंतरिक्षकेन्द्रत:  श्व: अपराह्ने प्रायः पादोन-त्रिवादने इदमभियानं जीएसएलवी-मार्क-त्रि  इति प्रक्षेप्यास्त्रेण प्रेशयिष्यते। प्रतीप गणना अद्य शायं आरप्स्यते। चत्वारिंशदधिक-षट-शत-टन-मितं भारवहन-सक्षममिदं प्रक्षेपयास्त्रं चंद्रयान-द्वे इति  वलयाकार-कक्षाम्प्रति नेष्यति। भारतीय अंतरिक्ष अनुसंधान  संघटनानुसारेण चंद्रयान-द्वे, त्रयोविंशति-दिन-पर्यन्तं पृथ्‍वीम्  परिक्रमिष्यते । तदनु यानमिदं पृथ्‍व्या: प्रभावक्षेत्राद्बहिर्गमिष्यति । प्रक्षेपणस्य त्रिंशे दिवसे इदं यानं चंद्रमस: कक्षायां सम्प्राप्स्यति

भारतीय अभियानस्य चन्द्रयान-द्वे इत्यस्य प्रक्षेपणस्य सज्जता अन्तिम चरणे वर्तते। Read More »