ऑन लीडर्स एंड आइकन्स फ्रॉम जिन्ना टू मोदी

दिवंगतस्य पत्रकारस्य  कुलदीप-नायरस्य  अन्तिम-पुस्तकस्य  ‘ऑन लीडर्स  एंड आइकन्स  फ्रॉम  जिन्ना टू  मोदी’  इत्यस्य  लोकार्पणस्य  अवसरे  पूर्वप्रधानमन्त्री  मनमोहनसिंह: उपस्थातुं प्रत्याख्यातवान्।  पत्रकारस्य  कुलदीप-नायरस्य पत्न्यै  भारत्यै  लिखिते  पत्रे श्रीसिंहेन आमन्त्रणम्  अस्वीकुर्वता लिखितं यत्  स:  यूपीए  अध्यक्षाया: सोनिया गान्धिन: गेहे सर्वकारीय-पञ्जिकानां सन्नयन-विषये कदापि  सहमतो नैवासीत् अमुना व्यलेखि-  “ मया साकं  कार्यपरस्य पुस्तकस्य एकस्मिन् अध्याये  १७२ संख्याके पृष्ठे  एक: सन्दर्भ: सम्प्राप्तो यत् मदीये  प्रधानमन्त्रित्व-काले, प्रशासनस्य पञ्जिका:  सोनिया-गान्धिनो गृहे सम्प्रेषयिष्यन्ते। इदं  कथनं नास्ति  सत्यम् अथ  च कुलदीप-महोदयेन मया  सार्धम् एतस्या: सत्यताया:  अन्वीक्षणम्  नैव विहितम्। अस्मिन्  पृष्ठभूमौ  २०१९  तम्यां  फरवरी अष्टम्यां  विनिश्चिते  पुस्तक-विमोचन-समारोहे  सम्मेलितुं  मत्कृते लज्जास्पदं भविष्यति।  अहम् आशासे भवती एतदर्थं मां क्षमिष्यते।”

दिवङ्गतस्य वयोवृद्ध-पत्रकारस्य कुलदीपनायरस्य अन्तिम-पुस्तकं, नेतृभि: असौ आदर्शत्वेन दृश्यते।

केंद्रीयमन्त्रिणा  अरुणजेटलिना  पुस्तकस्य विमोचनं  विधेयमासीत्, किन्तु वर्तमान-समये असौ न्यूयॉर्क  नगरे  उपचाराधीनो वर्तते,  अनेनापि   वीडियो कॉन्फ्रेंस इति दृश्य-श्रव्य-माध्यमेन कार्यक्रमे भागो भजित:।जेटलिना प्रतिपादितं यत्  आपत्काल-समये  कुलदीपनायर-वर्येण सर्वातिशयं महत्वपूर्ण-योगदानं  प्रादत्तमिव दृग्गोचरितम्। ” यदा आपत्काल: देशे प्रवर्तित: आसीत् तदा  सेंसरशिप इति  निषेधश्चापि रोपित: आसीत्। तदानीं पत्रकारिता-क्षेत्रं तन्निभस्य  नेतुरन्वेषरणम् कुरुते स्म यो हि मुखरीभूय वक्तुं प्रभवेत्। तदा  मुखर: बन्धुरश्च कुलदीप-नायर:  स्वाभाविकतया समेषाम् प्रिय:  संजात: आसीत्। अत  एव असौ  बहिरेव  उत्थानपर: अवर्तत, निरोधस्यापि सम्मुखीकरणम् कृतम्, न्यायलयेषु न्यायिक-सङ्गरोSपि कृत:, कतिचित् कालानन्तरं कारात: विमुक्तोSपि जात:, अमुना कदापि पृष्ठावलोकनं न कृतं, न च कर्हिचिदपि अमुना स्व-विचारधाराविषये सन्धि: कृत:।

कुलदीप: भारत-प्रशासनस्य प्रैषसूचनाधिकारिपदे भूरिवर्षपर्यन्तं कार्यं सम्पाद्य ‘यू.एन.आई., ‘पी.आई.बी., ‘द स्टैट्समैन’, ‘इंडियन एक्सप्रेस’  इत्येतै:  समवायै: साकमपि सुदीर्घ-समय-पर्यन्तं  संयोजित: आसीत्। नायरवर्येण नैकानि पुस्तकानि अपि विलिखितानि सन्ति। असौ पंचविंशति-वर्षाणि यावत् लन्दनस्थस्य ‘द टाइम्स’ इति समवायस्य संवाददातापि अवर्तत। 
 
विगतवर्षे वरिष्ठ:पत्रकार: कुलदीप नायर: वयस:  ९५वर्षे  निधनमुपगत: आसीत्। नायर:  पत्रकारिताक्षेत्रे आजीवनोपलब्धये ‘रामनाथ गोयनका-स्मृ़ति-पुरस्कारेण अपि सम्मानितो वर्तते। कुलदीपनायर: १९९७तमे वर्षे राज्यसभाया: सदस्‍यरूपे  निर्वाचित:  आसीत्।
 
पत्रकारिता-जगति ‘द कुलदीपनायर:’ पत्रकारिता-पुरस्कारोsपि प्रदास्यते।