वार्ताः

प्रधानमन्त्री भारतीय-संसदीय-निर्वाचनायोजनमपि ‘लोकतन्त्रस्य कुम्भत्वेन पर्यभाषयत्।

भारतीय-संस्कृतिक-सम्बन्ध-परिषदा अद्य  दिल्ल्यां प्रवासि-भारतीय-केन्द्रे १८८ देशानां  शिष्टमण्डलीय-सदस्यानां , स्वागताभिनन्दनार्थं विशिष्टमायोजनमनुष्ठितम्। एतै: सदस्यै: प्रयागराजे कुम्भमेलके  प्रतिभागिता विहिता आसीत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी  विदेशमन्त्री श्रीमती सुषमास्वराजवर्या च १८८ शिष्टमण्डलीयै: सदस्यै: साकं  ऐतिहासिक-सामूहिक-चित्राङ्कने सहभागं कृतवन्तौ। प्रधानमन्त्रिणा समुपस्थितं जनसमूहं सम्बोधयता  प्रत्यपादि यदसौ प्रयागराज-कुम्भमलकात् सद्यस्समागतै:  शिष्टमण्डलीयै: सदस्यै: सार्धं सम्मेल्य प्रफुल्लोSस्ति।अमुना प्रोदितं यद् यावत् कश्चनापि कुम्भमेलके सहभागितां नैव कुरुते तावत्तस्य सर्वतोदृशा श्लाघामपि नैव […]

प्रधानमन्त्री भारतीय-संसदीय-निर्वाचनायोजनमपि ‘लोकतन्त्रस्य कुम्भत्वेन पर्यभाषयत्। Read More »

अन्ताराष्ट्रिय-मातृभाषा-दिवस:

अद्य निखिले विश्वे अन्ताराष्ट्रिय-मातृभाषा-दिवस: परिपाल्यते। मातृभाषादिवस-परिपालन-परम्परा अद्यत:  अष्टादश-वर्ष-पूर्वं  प्रारब्धा आसीत्।विश्वपटले अन्ताराष्ट्रिय- मातृभाषा-दिवस-प्रवर्तनस्य श्रेय: भारतस्य प्रतिवेशि-देशाय बांग्लादेशाय गच्छति ।भारतमेकं वैविध्यान्वितं राष्ट्रमस्ति। अत्र प्राय: प्रत्येकं राज्याणां पृथक्पृथग्भाषा: वर्तन्ते। उपराष्ट्रपतिना श्रीवेंकैयानायडुना अवसरेSस्मिन् ट्वीटसन्देशे प्रोदितं यत्- काश्चन अपि भाषा: तत्तत्पीठिकानां सृजनात्मकमनुभवमभिव्यक्तीकुर्वन्ति। अतः कस्याश्चिदपि भाषाया: ह्रास: मानव-रिक्थस्य ह्रास: भवति। समाजस्य सृजनात्मकताम् उज्जीवयितुं मातृ-भाषाणां, मातृभाषा-रचितस्य साहित्यस्य च  अध्ययनं कुर्वन्तु। तां तां च

अन्ताराष्ट्रिय-मातृभाषा-दिवस: Read More »

दिल्लीस्थ जामिआ मिल्लिया इस्लामिआ विश्वविद्यालयस्य त्रिदिवसीय-राष्ट्रिय-संस्कृत-सम्मेलनम्

दिल्लीस्थ जामिया मिल्लिया इस्लामिया विश्वविद्यालयस्य संस्कृतविभागेन सद्य एव त्रिदिवसीयराष्ट्रियसंस्कृतसम्मेलनमनुष्ठितम्।  विश्वविद्यालयस्य संस्कृतविभागस्य प्रायः वर्षद्वयं सम्पूर्यते। यत्र एतन्निभ:संस्कृतस्य बृहत्तम-सम्मेलनायोजनस्य प्रथमोऽवसर: आसीत्। संस्कृतविभागाध्यक्षेण प्रो. गिरीशचन्द्रपन्तवर्येण प्रतिपादितं यत् ‘अस्मिन् सम्मेलने काश्मीरस्थ पुलवामायां दुरापन्नाक्रमणे वीरगतिङ्गतेभ्य: वीरभटेभ्य: देशस्य संस्कृतकविभि: विनम्रकाव्याञ्जलिपुरस्सरं श्रद्धाप्रसूनाञ्जलय: समर्पिता:। त्रिदिवसीयसम्मेलनस्य निष्कर्षत्वेन संस्कृतविभागाध्यक्ष: प्रो.गिरीशचन्द्रपन्त: न्यगदत् यत् ‘सम्प्रति देशे प्राथम्येन आकाशवाण्या: संस्कृतकेन्द्रस्थापनाया: परमावश्यकता वर्तते। यत: संस्कृतपत्रकारितायाम् अध्ययनरता: छात्रा: स्वीयसंस्कृतसम्प्रेषणीयतां सञ्चारसमर्हणीयतां

दिल्लीस्थ जामिआ मिल्लिया इस्लामिआ विश्वविद्यालयस्य त्रिदिवसीय-राष्ट्रिय-संस्कृत-सम्मेलनम् Read More »

पुलवामाक्रमणम् यूएन महासचिवेन भृशं भर्त्सितम्

संयुक्त-राष्ट्र-महासचिवेन एन्तोनियो गुटेरेश-इत्यमुना भारतस्य कश्मीरस्य पुलवामा-जनपदे  केन्द्रीयारक्षितारक्षिबलस्य (सीआरपीएफ़) इत्यस्य  वृन्दे दुरापन्नातङ्क्याक्रमणम् भृशं भर्त्सितम्। अस्मिन्नाक्रमणे चतुश्चत्वारिंशद् अधिका: सुरक्षाभटा: वीरगतिङ्गता: आसन्। विवरणानुसारेण  एकेन आत्मघातिकारयानविस्फोटकेन दुरापादितेSस्मिन्नाक्रमणे सुरक्षाभटारूढ़बसयानं  लक्ष्यीकृतमासीत्।

पुलवामाक्रमणम् यूएन महासचिवेन भृशं भर्त्सितम् Read More »

छायाङ्कनदृश्याणि अभिव्यक्ते: सूचनानां च सर्वश्रेष्ठमाध्यमेषु अन्यतमानि सन्ति- उपराष्ट्रपति: श्रीवेंकैयानायडु:

उपराष्ट्रपतिना श्रीवेंकैयानायडुना ट्वीटसन्देशे प्रत्यपादि यत् ”फोटोग्राफी इति छायाङ्कनं न केवलं एकं सञ्चारोपकरणमस्ति, प्रत्युत जनचेतना-प्रसारणस्य प्रभावशालिमाध्यममप्यस्ति।छायाङ्कनविधयास्माभिरधिगम्यते स्वीय-कथाप्रकथनस्य, अपरेभ्य: तद्विषयक-विवरण-प्रदर्शनस्य, विश्वस्मिन्नपि विश्वे प्रसारणस्य च अनुमति:। ” नवदिल्ल्यां  ‘वर्किंग न्यूज़ कैमरेंपर्सन एसोसिएशन’ द्वारा समायोजितां  “द बिग पिक्चर” इत्याख्यां पञ्चमीम् द्वै-वार्षिक-चित्र-प्रदर्शनीम्  उद्घाटयता  उपराष्ट्रपतिना श्रीवेंकैयानायडुना स्वीये औद्घाटनिके वक्तव्ये प्रतिपादितं यत्- एतन्निभा चित्रप्रदर्शनी महत्वपूर्ण-वार्ता-निर्माणस्य घटना: प्रकाशयति, सहैव  ऐतिह्यस्य स्मरणीयान् क्षणान्नपि अस्माकं पुरत:

छायाङ्कनदृश्याणि अभिव्यक्ते: सूचनानां च सर्वश्रेष्ठमाध्यमेषु अन्यतमानि सन्ति- उपराष्ट्रपति: श्रीवेंकैयानायडु: Read More »

ऑन लीडर्स एंड आइकन्स फ्रॉम जिन्ना टू मोदी

दिवंगतस्य पत्रकारस्य  कुलदीप-नायरस्य  अन्तिम-पुस्तकस्य  ‘ऑन लीडर्स  एंड आइकन्स  फ्रॉम  जिन्ना टू  मोदी’  इत्यस्य  लोकार्पणस्य  अवसरे  पूर्वप्रधानमन्त्री  मनमोहनसिंह: उपस्थातुं प्रत्याख्यातवान्।  पत्रकारस्य  कुलदीप-नायरस्य पत्न्यै  भारत्यै  लिखिते  पत्रे श्रीसिंहेन आमन्त्रणम्  अस्वीकुर्वता लिखितं यत्  स:  यूपीए  अध्यक्षाया: सोनिया गान्धिन: गेहे सर्वकारीय-पञ्जिकानां सन्नयन-विषये कदापि  सहमतो नैवासीत् अमुना व्यलेखि-  “ मया साकं  कार्यपरस्य पुस्तकस्य एकस्मिन् अध्याये  १७२ संख्याके पृष्ठे  एक: सन्दर्भ: सम्प्राप्तो यत्

ऑन लीडर्स एंड आइकन्स फ्रॉम जिन्ना टू मोदी Read More »

एकविंश्या: शताब्द्या: प्रस्थानत्रय्या: भाष्यकार: स्वामी भद्रेशदासवर्य: उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा “आचार्यप्रवर” इति पुरस्कारेण सुबहुमानेन सम्मानित:।

‘अक्षरपुरुषोत्तमदर्शनम्’ – नूतन वेदान्तदर्शनस्य लखनऊनगरस्य अटलबिहारिबाजपेयी साइन्टिफिक कन्वेन्शन सेन्टर इत्यत्र  सम्मानसमारोह: समायोजित:। वेदान्त-विद्याक्षेत्रे विशिष्टावदानार्थं समायोजिते सम्मानसमारोहे चत्वारिशत्तोSप्यधिक-विश्वविद्यालया: सम्मिलिता: । भारतवर्षस्य अतिशय प्राचीना वेदान्तपरंपरायां नैकै: आचार्यै: उपनिषद्ब्रह्मसूत्र-श्रीमद्भगवद्गीता चेति शास्त्रत्रय्यां विभिन्नतत्त्वदर्शननान्यनुसरद्भि:   भाष्यग्रन्था: विरचिता:, येषु आदिगुरु: शंकराचार्य: अद्वैतानुसारेण सर्वप्रथमभाष्यं व्यरचयत्। तदनु रामानुजाचार्य-मध्वाचार्य-निम्बार्काचार्य-वल्लभाचार्य-प्रभृतिभि:  विशिष्टाद्वैत-द्वैत-द्वैताद्वैत-शुद्धाद्वैतादि-मतानि अनुसृत्य भाष्यग्रन्था: विरचिता: । अन्तिमभाष्यकार-रूपेण चैतन्यमहाप्रभो: अचिन्त्यभेदाभेदमतमनुसृत्य बलदेवविद्याभूषण-द्वारा एकोनविंश्यां  शताब्द्यां ब्रह्मसूत्रे भाष्यम् विरचितम्। तदनु विगत-सर्धैक-र्वर्षेषु प्रस्थानत्रय्यां

एकविंश्या: शताब्द्या: प्रस्थानत्रय्या: भाष्यकार: स्वामी भद्रेशदासवर्य: उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा “आचार्यप्रवर” इति पुरस्कारेण सुबहुमानेन सम्मानित:। Read More »

प्राच्यविद्याकोविद: स्टैंनली इंस्लरवर्य: निधनमुपगत:

८२ वर्षीय: स्टैनली इंस्लर वर्य:, येल विश्वविद्यालये संस्कृतस्य तुलनात्मकदर्शनशास्त्रस्य च विद्वान् आचार्य: आसीत्, असौ जनवरी पञ्चम्यां येल-स्थिते  ‘न्यू हेवन’ चिकित्सालये निधनमुपगत:। इंस्लरवर्य: स्वीय-पीठिकाया: प्रमुख: संस्कृतमनीषी आमान्यते स्म, असौ तन्निभो विद्वान्  आसीद् येन ऐतिहासिक-भाषा-विज्ञान-क्षेत्रे  भृशं योगदानं प्रदत्तम्।इंसलरवर्येण प्राचीनभारतस्य ईरानदेशस्य च  साहित्यस्य, भाषाणां, संस्कृतशास्त्रीयग्रन्थानां, महाकाव्यानां, कवितानां, पालि-प्राकृत-ग्रन्थानां च विषये विस्तार-पूर्वकं भूरि भूरि लिखितमस्ति।

प्राच्यविद्याकोविद: स्टैंनली इंस्लरवर्य: निधनमुपगत: Read More »

अमेरिकादेशीय: प्राच्यविद्याविशारद: डॉ. डेविड फ्रॉली

अमेरिकादेशीयो भारतीय-प्राच्यविद्या-चिन्तक:,  वक्ता , विश्वस्मिन्नपि विश्वे भारतीयमनीषाया: प्रसारक:, प्राचीन-ज्ञानविज्ञान-संपोषक:, विश्रुतो लेखकश्च  डॉ. डेविड फ्रॉली  यो हि भारतीयजनै: वामदेवशास्त्रीति  नाम्ना समाकार्यते। तस्य महामनीषिण: मन्तव्यमस्ति यत्  वैदिक- ज्ञान-राशि:  भारतस्य विश्वस्य च जनानाम् आध्यात्मिकचेतनाभिवृध्यै,  ब्रह्माण्डगत-रहस्यानामवगमनाय, प्राण-वायोरभिवर्धनाय, पराचेतनायाश्च  ज्ञान-विज्ञान-पद्धतिं सूक्ष्मतयाधिगमनाय सुतरां सहायकस्सेत्स्यति। विश्वस्मिन्नपि विश्वे संस्कृतविद्याया: प्रसाराय निरतोSस्त्ययं विद्वान् वामदेवशास्त्रीति नाम्ना विश्रुतोSस्त्यसौ भारते डॉ. डेविड फ्रॉली इत्यामुना अमेरिकादेशीय अध्यात्मज्ञान-पिपासुजनेभ्य: भारतीययोगदर्शनस्य,

अमेरिकादेशीय: प्राच्यविद्याविशारद: डॉ. डेविड फ्रॉली Read More »

मानवसंसाधनविकासमंत्रालयेन संस्कृतशिक्षाया: मानितविश्वविद्यालयत्रयं केन्द्रीयविश्वविद्यालयत्वेन प्रतिष्ठापयितुं प्रस्तावो निर्मित:।

मानवसंसाधनविकासमंत्रालयेन संस्कृतशिक्षाया: मानितविश्वविद्यालयत्रयं केन्द्रीयविश्वविद्यालयत्वेन प्रतिष्ठापयितुं प्रस्तावो निर्मित:। विवरणमिदं केन्द्रीयमानवसंसाधनविकासराज्यमन्त्रिणा सत्यपालसिंहेन प्रदत्तम्। एतेषु नवदिल्ल्या: राष्ट्रियसंस्कृतसंस्थानम्, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतवद्यापीठम्, तिरुपतिस्थं राष्ट्रियसंस्कृतविद्यापीठं च वर्तन्ते।संसदि एकस्मिन् लिखितोत्तरे मन्त्रिणोक्तं यत् ‘संस्कृतविदुषां शिक्षाविदाञ्च ध्यानीयां अनवरताध्यर्थनां निध्याय  मन्त्रालयेन  मानितविश्वविद्यालयान् केन्द्रीयविश्वविद्यालयत्वेन परिवर्तितुं प्रस्तावो निर्मित:। अस्योद्देश्य: संस्थानानां संस्कृत-शिक्षण-क्षेत्रे राष्ट्रियान्ताराष्ट्रियस्तरे प्रतिष्ठापनं वर्तते। एतदर्थं मन्त्रिमण्डलीयं विवरणपत्रमपि निर्मितमस्ति।

मानवसंसाधनविकासमंत्रालयेन संस्कृतशिक्षाया: मानितविश्वविद्यालयत्रयं केन्द्रीयविश्वविद्यालयत्वेन प्रतिष्ठापयितुं प्रस्तावो निर्मित:। Read More »