वार्ताः

वेदांगी कुलकर्णी

भारतस्य वेदांगी कुलकर्णी सर्वाधिक-तीव्रगत्या विश्‍वभ्रमणकर्त्री एशियामहाद्वीपीया प्रथमा महिला संवृत्ता। तया नवविंशति: सहस्रकिलोमीटरक्षेत्रं यावत्  विश्वभ्रमणाय निर्धारितमानकं द्विचक्रिकाचालनेन सम्पूरितम् ।

वेदांगी कुलकर्णी Read More »

संस्कृत ऑन सिल्क रुट- डॉ. शशिबाला

चीनस्य विदेशमन्त्रिणा  वांग यी इत्यमुना  सार्धं भारतीयविदेशमन्त्रिणा श्रीमत्या सुषमास्वराज-वर्यया नवदिल्ल्यां  समनुष्ठिते भारत-चीन-सांस्कृतिक-संध्या-कार्यक्रमे एकमद्भुतं पुस्तकं लोकार्पितम्।  ‘संस्कृत ऑन  सिल्क रुट’  इत्याख्यामिदं पुस्तकं  विश्वविख्यातया प्राच्यविद्याविदुष्या परमसंस्कृतज्ञया डॉ. शशिबाला महोदयया सम्पादितमस्ति।   http://Array इदं पुस्तकं नवदिल्लीस्थाद्भारतीयविद्याभवनत: प्रकाशितमस्ति।  चीनदेशीय-प्रान्तेषु संस्कृतस्य निगूढ-गम्भीर-मान्यता-परम्परा-स्रोतांसि पुस्तकेSस्मिन्नुद्घाटितानि सन्ति।  चीनदेशस्य विदेशमंत्री वांग यी  उभयो: देशयो:  जन-जनेषु  मिथ: सम्पर्क-विषये उच्च-स्तरीय-तन्त्रस्य प्रथमोपवेशने  भागं भजीतुं भारतमागतोSस्ति। विषयममुं सन्दृभ्य असौ राष्ट्रपतिना

संस्कृत ऑन सिल्क रुट- डॉ. शशिबाला Read More »

कीर्तिशेष: आजीवनं संस्कृतविद्यार्थी

महदिदं कष्टावहं यदनतिसाधारण:, साहित्य-सौहित्य-समूर्जित-मेधामण्डित:, संस्कृत-जगतो मूर्धन्यमनीषी, स्वस्तिवाचनमित्याख़्यस्य सार्वभौमसंस्कृतसमवायस्याध्यक्ष:,दैशिकेषु, वैदेशिकेषु च विद्वन्मण्डलेषु शिरोमणिमयमण्डनमण्डित:, गद्य-पद्य-चम्पू-विधासु सिद्धहस्त:, विश्वसमिन्नपि विश्वे  अधीति-बोधाचरण-प्रचारण-माध्यमै:  संस्कृतस्य प्रचारक:, संस्कृत-मातु: सेवक:, अस्माकं गुरुकल्प:, अनेकविशिष्टपुरस्कारभाक्,  शताधिकग्रन्थकर्ता, राष्ट्रिय-संस्कृत-संस्थानस्य संस्थापक:, तत्रैव निदेशकचर:, कामेश्वर-सिंह-संस्कृत-विश्वविद्यालयस्य दरभङ्गास्थस्य कुलपतिचर:,  प्रो.रामकरणशर्मा डिसम्बर-अष्टादशतिथौ शिवसायुज्यमगात्। श्रीशर्मण: संस्थित्या समस्तमपि संस्कृतोद्यानं दिग्दिगन्तं यावत् सुरभितम् अवर्तत।   आचार्यशर्ममहोदयस्य आध्यक्ष्ये स्वस्तिवाचन-समवायेन संस्कृत-मातु: सेवाया: अवसरो लब्ध: इति धन्यं मन्यामहे वयम्। तस्य विद्वत्ता-शालीनता-विनम्रता:

कीर्तिशेष: आजीवनं संस्कृतविद्यार्थी Read More »

नवीनतमवार्ता:- सद्गुरु – वसुदेवजग्गी – संस्कृतवार्ता: –

वासुदेव जग्गी यो हि विश्वस्मिन्नपि विश्वे  ‘सद्गुरु:’ इत्यभिधानेन प्रख्यातो वर्तते, सो हि  दिल्ल्यां  समायोजिते एकस्मिन् सम्मलेने  संस्कृतस्य महिम्न: गुणगानं विदधनो दृग्गोचरित:।  होटल ताज मानसिंह इत्याख्ये उपहारगृहे इंडियन फाउंडेशन द्वारा समनुष्ठिते सम्मेलने असौ  भारत-अमेरिकीय-मूलस्य संगणक-वैज्ञानिकेन श्रीसुभाष-काकेन सार्धम्  मञ्चे सम्भाषणमकरोत्।   तदानीमेव सम्भाषणोपरान्तं दर्शकदीर्घायां समासीनेन लन्दनस्थस्य Sanskrit @ St James विद्यालयस्य निर्देशकेन तेन साकं केचन संस्कृत-विषयका: ये प्रश्ना:

नवीनतमवार्ता:- सद्गुरु – वसुदेवजग्गी – संस्कृतवार्ता: – Read More »

भारतीयदलं विश्वचषकहॉकिस्पर्धामालिकायां प्रागुपान्त्यचक्रे

भुवनेश्‍वरे प्रवर्तमानायां विश्वचषकहॉकिस्पर्धायां पूल-सी इत्यस्मिन् समूहे शीर्षस्थं भारतीयदलं प्रागुपान्त्यचक्रं प्रविष्टम्। भारतीयदलेन शनिवासरे कनाडादलं 5-1 गोलाङ्कान्तरालेन पराजितम्। इत: पूर्वं शृङ्खलायां  बेल्जियमदलेन दक्षिणाफ्रीकावृन्दं 5-1अङ्कान्तरालेन पराजितम्। अनेन विजयेन सह बेल्जियमस्य सप्त अङ्का: संजाता:  ।

भारतीयदलं विश्वचषकहॉकिस्पर्धामालिकायां प्रागुपान्त्यचक्रे Read More »

प्रवासिभारतीया: देशोन्नतिगाथाया: दूता: वर्तन्ते- किरेनरिजिजू:

प्रवासिभारतीययूनाम् एकेन दलेन नवदिल्‍ल्यां केन्द्रीयगृहराज्‍यमन्त्रिणा किरेन-रिजिजू इत्यामुना साकं मेलनपूर्वकं सम्भाषणमाचरितम्। अष्टदेशेभ्य:  समागताः युवजना: विदेशमन्त्रालयस्य आन्ध्रप्रदेश-प्रशासनस्य च पक्षत:  समायोजिते  ”भारत को जानिये” ‘भारतम् अवगच्छतु’ इति कार्यक्रमस्यान्तर्गतं पञ्चविंशति-दिवसीय भारतयात्रायामागता: सन्ति। श्रीरिजिजूवर्येण प्रवासिभारतीया: युवका: प्रोदिता: यद्यदा ते नैजीं यात्रां सम्पाद्य प्रत्यावर्तयिष्यन्ति तदा तै: भारतस्य विकासगाथाया:  दूतत्वेन  भारतस्य स्वीयमङ्गलानुभवा: विश्वस्य पुरत: उपस्थापनीया:।  अनेन निगदितं यद्भारतप्रशासनं प्रवासिभारतीयानां महत्‍वमभिजानाति ,येन तान्  सततं

प्रवासिभारतीया: देशोन्नतिगाथाया: दूता: वर्तन्ते- किरेनरिजिजू: Read More »

लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-वर्यया ‘स्वस्तिवाचनम् संस्कृतवार्ता’-वाहिन्या: वेबफलकं लोकार्पितम्।

दिल्लीस्थस्य भारतीयजनसञ्चारसंस्थानस्य एकपञ्चाशे दीक्षान्त-समारोहावसरे मुख्यातिथित्वेन उपस्थितया लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-महोदयया स्वस्तिवचनम् संस्कृत-वार्ता-वाहिन्या:  वेबफलकं  www.sanskritnews.com लोकाय समर्पितम् । अस्मिन्नवसरे भारतीयजनसंचारसंस्थानस्य निदेशकेन  श्रीमता के. जी. सुरेश-वर्येण प्रोदीरितं यद्  “विश्वस्मिन्नपि विश्वे ऐदम्प्राथम्येन केनचिदपि शैक्षणिक-संस्थानेन इत्थं समर्हणीया:  युवजना: पूर्णतोदृशा आधुनिकप्रविधीनां शिक्षण पुरस्सरंसंस्कृतपत्रकारितायां  सुदीक्षिता: ।  श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च  सम्भूय सञ्चालित: ‘त्रैमासिक: संस्कृत-एडवान्स-डिप्लोमा-पाठ्यक्रम:’ समाजे संस्कृतपत्रकारिताया: मार्गोद्घाटनपूर्वकं  संस्कृताध्येतृ-युवकान् रूढ़िवादिताया:  दूरे कृत्वा सशक्तजीविकाया: क्षेत्रे पदार्पणार्थं सहायक: सिध्यति । ”संस्कृतपत्रकारितायां

लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-वर्यया ‘स्वस्तिवाचनम् संस्कृतवार्ता’-वाहिन्या: वेबफलकं लोकार्पितम्। Read More »

अरुणाचलप्रदेशस्थे भारतचीनसीम्नि सैनिकानाम् अदम्यसाहस-शौर्य-मनोबलानां संवर्धनाय प्रस्तरे समुट्टङ्किता संस्कृतमयी सूक्ति

अरुणाचलप्रदेशस्थे भारतचीनसीम्नि सैनिकानाम् अदम्यसाहस-शौर्य-मनोबलानां संवर्धनाय प्रस्तरे समुट्टङ्किता संस्कृतमयी सूक्ति Read More »

चैम्पियन ऑफ द अर्थ –‘वसुन्धरा विजेता’

प्रधानमन्त्रिणे श्रीनरेन्द्रमोदिने संयुक्तराष्ट्रद्वारा ‘चैम्पियन ऑफ अर्थ’ इत्याख्य: “वसुन्धराविजेतृ’ प्रतिष्ठित: पुरस्कार: उपायनीकृत: । द्वाविंशत्युत्तर-द्विसहस्रतमवर्षपर्यन्तं प्लास्टिक-पदार्थानामुपयोगावसानदिशि विहितकार्याणां योगदानं वीक्ष्य पुरस्कारोSयमुपाहृत: । समुन्नतोऽस्ति विश्वभालभूततुंगपर्वत:, अतीवगर्विता: जनाश्च सन्ति मानमण्डिता:। नमो स्वराष्ट्रवर्धक: धराविजेतृमानित: नमोऽद्य मानितस्सखे! वसुन्धरा-सुवल्लभ:।।

चैम्पियन ऑफ द अर्थ –‘वसुन्धरा विजेता’ Read More »

प्रधानमन्त्रिणा ‘जीसैट-एकादश’ इत्याख्योपग्रहस्य सफलप्रक्षेपणाय इसरो-वैज्ञानिका: वर्धापिता:

प्रधानमन्त्रिणा श्रीनरेन्‍द्रमोदिना ‘जी-सैट-एकादश’ इत्यस्य सफलप्रक्षेपणाय भारतीयान्तरिक्षानुसंधानसङ्घटनस्य वैज्ञानिका: वर्धापिता:। प्रधानमन्त्रिणोक्तं यत्  “अस्माकम् अन्तरिक्षकार्यक्रमस्य  प्रमुखाधार: ‘इसरो’ संघटनमस्ति । अनेनोपग्रहेण सुदूरवर्तिक्षेत्राणां कोटिशो भारतीयानां जीवने महत्परिवर्तनमायास्यति । भारतस्य सर्वाधिक-भारयुतस्य, बृहत्तमस्य च अत्‍याधुनिक-सञ्चारोपग्रहस्य ‘जी-सैट-11’ इत्यस्य सफलप्रक्षेपणाय ‘इसरो’ संघटनं वर्धाप्यते” । ISRO इत्याख्येन भारतीयान्तरिक्षानुसन्धान-संघटनेन अधुनावधिपर्यन्तं बृहत्तमः, सर्वाधिक: भारयुक्तश्च G-SAT-11 इत्युपग्रह:  फ्रेंच गुयाना-त:  साफल्येन प्रक्षेपित:, ‘जी-सैट-एकादश’ इत्युपग्रहेण  देशस्यान्तरिक-क्षेत्रेषु तीव्रगतिकानि अन्तर्जालसौविध्यानि समुपपादयिष्यन्ते ।

प्रधानमन्त्रिणा ‘जीसैट-एकादश’ इत्याख्योपग्रहस्य सफलप्रक्षेपणाय इसरो-वैज्ञानिका: वर्धापिता: Read More »