अमेरिकादेशीय: प्राच्यविद्याविशारद: डॉ. डेविड फ्रॉली

अमेरिकादेशीयो भारतीय-प्राच्यविद्या-चिन्तक:,  वक्ता , विश्वस्मिन्नपि विश्वे भारतीयमनीषाया: प्रसारक:, प्राचीन-ज्ञानविज्ञान-संपोषक:, विश्रुतो लेखकश्च  डॉ. डेविड फ्रॉली  यो हि भारतीयजनै: वामदेवशास्त्रीति  नाम्ना समाकार्यते। तस्य महामनीषिण: मन्तव्यमस्ति यत्  वैदिक- ज्ञान-राशि:  भारतस्य विश्वस्य च जनानाम् आध्यात्मिकचेतनाभिवृध्यै,  ब्रह्माण्डगत-रहस्यानामवगमनाय, प्राण-वायोरभिवर्धनाय, पराचेतनायाश्च  ज्ञान-विज्ञान-पद्धतिं सूक्ष्मतयाधिगमनाय सुतरां सहायकस्सेत्स्यति।

विश्वस्मिन्नपि विश्वे संस्कृतविद्याया: प्रसाराय निरतोSस्त्ययं विद्वान्

वामदेवशास्त्रीति नाम्ना विश्रुतोSस्त्यसौ भारते

डॉ. डेविड फ्रॉली इत्यामुना अमेरिकादेशीय अध्यात्मज्ञान-पिपासुजनेभ्य: भारतीययोगदर्शनस्य, वेदान्तदर्शनस्य चाद्भुत-निगूढ-तत्वानां  सहजतया परिवेषणे नैजी तत्परता, कटिबद्धता च  सविशेषम् प्रकटीकृतास्ति, येन कारणेन भारत-प्रशासनेन  पद्मभूषण इत्यलङ्करणेनाप्यसौ  भूरिमानितो वर्त्तते।

अमुना भारतीयमनीषाया: विश्वगगने डिम्डिम्घोष: क्रियते