संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः)

संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः)

डॉ. नवलता, पूर्वसंस्कृतविभागाध्यक्षा, विक्रमाजीतसिंहसनातनधर्ममहाविद्यालयः कानपुरम्

संस्कृतसन्दर्भे आधुनिकजगति सर्वतोऽधिकं चर्चितस्य विवादपदङ्गतस्य च विदेशीसंस्कृतविदुषः फ्रेडरिकमैक्समूलर इत्यस्य मूल्याङ्कनार्थं संस्कृतसाहित्यस्य इतिहासः भारतस्य राजनैतिकपृष्ठभूमिश्चावेक्षणीया। 

सकललोकविश्रुतायाः विश्वस्मिन्नपि विश्वे  प्राचीनतमायाः सर्वभाषाप्रतिष्ठायाः सुरभारत्याः वैभवं ख्यापयन्तः विश्वस्य प्रथमवाङ्मयत्वेन प्रसिद्धाः संहिताब्राह्मणस्वरूपात्मकाः चत्वारो वेदाः तत्तत्त्वार्थख्यापका आरण्यकोपनिषदः वेदार्थबोधाय तन्निधीभूतानि षड्वेदाङ्गानि उपाङ्गानि सर्गादिपञ्चलक्षणात्मकानि पुराणानि लौकिकेतिहासतया प्रतिष्ठिते रामायणमहाभारते अन्यच्चानवरतमद्यपर्यन्तं विरच्यमानं नानाशास्त्रकाव्यादिपरम्परावितानं नूनमेव संस्कृतभाषायाः तस्याः वाङ्मयस्य व्यापकत्वं जीवन्तताञ्च प्रमाणीकरोतीत्यत्र न सन्देहः। मानवसभ्यतायाः प्रथमचरणस्यारम्भत एव जीवनलक्ष्यं निर्दिशन्ती अपौरुषेयवेदविग्रहा साक्षात्कृतधर्मणामृषीणामाप्तवाणी लोकजीवनस्याधारत्वेन कल्पिता। अत एव पश्चात् मन्वादिधर्मशास्त्रप्रवर्तकाः वेदोऽखिलं धर्ममूलित्यादि उद्घोषेण मानवधर्मस्य निर्धारणं चक्रुः। मन्तव्यमत्र मात्रमेतद् यत्संस्कृतं विश्वस्य प्राचीनतमा भाषा एव नापितु लोकजीवनस्य विशेषतः भारतीयाणां लोकव्यवहारस्य चाधारः।

कस्यापि देशस्य इतिहासः उच्चावचैः आरोहावरोहैः व्यक्ताव्यक्तैः प्रसङ्गैर्युक्तो भवति। प्राकृतिकभौतिकसांस्कृतिकघटनाक्रमैः सभ्यतायाः क्षयवृद्धिभ्यां जीवनपद्धतिः कदाचित्परिवर्तमानेवाभाति किन्तु मूलस्य नाशो न भवति। अनुकूलेऽवसरे मूलं पुनः पुनः उद्बुद्धं भवत्येव। अस्माकं भारतवर्षमपि न तस्यापवादः। यद्यपि वैदिकसंहितासु ब्राह्मणग्रन्थेषु उपनिषत्सु अन्यत्र च बीजतया भारतीय इतिहासो निक्षिप्तः किन्तु पुराणेषु वंशानुचरितरूपेण तत्तत्पुराणरचनाकालपर्यन्तं नैके ऐतिहासिकविषयाः उल्लेखिताः। रामायणे महाभारते च आर्यावर्तस्य बृहदितिहासः प्राप्यते। ईसापूर्वचतुर्थपञ्चमशताब्दीपर्यन्तं संस्कृतं लोकभाषा आसीत्। किन्तु तदनन्तरमपि अभिजातवर्गस्य व्यवहारभाषा संस्कृतमासीदित्यस्य प्रमाणं प्राप्यते।

चन्द्रगुप्तविक्रमादित्यं यावत् (चतुर्थपञ्चमशताब्दी) संस्कृतभाषायाः वैदिकसंस्कृतेश्च व्यापकप्रसार आसीत्। किन्तु ततः प्राक् द्वितीयशाताब्दीईसापूर्वं शकानां (ईरानीभाषाभाषिणाम्) तस्य समसामयिके काले  चतुर्थपञ्चमशताब्द्याञ्च हूणानामाक्रमणेन राजनैतिकविक्षोभवशात् संस्कृतभाषायाः व्यवहारोऽपि ह्रासोन्मुखो जातः। शनैः शनैः क्षेत्रीयभाषारूपेण प्राकृतानां उद्भवो जातः। बौद्धधर्मस्य प्रचारेण पाली भाषापि व्यवहारभाषातया उद्भूता। ततः वैदेशिकाक्रमणानां यः क्रम आरब्धः तस्य समापनं प्रायः 1947 ईसव्यां जातः। भारतीयसंस्कृतिभाषयोः सर्वाधिकं हानिः आँग्लशासकैः कृता इति जानन्त्येव विपश्चितः। तस्मिन्नेव क्रमे 6 दिसम्बर 1823 तमे दिनाङ्के जर्मनीदेशस्य देसो इत्याख्ये नगरे विल्हममूलर इत्याख्यस्य कवेः पुत्रत्वेन लब्धजनिः फ्रेडरिकमैक्समूलरः प्रमुखः।

आधुनिकसंस्कृतविद्वत्परम्परायामसौ न केवलमाधुनिकयूरोपमहाद्वीपेऽपितु विश्वस्य संस्कृतजगति प्राच्यभाषाविद्याविशारदरूपेण ख्यातः। विशेषतः सांस्कृतिके भारतीयेतिहासे एकतः प्राच्यसंस्कृतवाङ्मयस्य नवीनोपस्थापकत्वेन कल्पितोऽपरतश्च भारते आँग्लशिक्षाप्रसारेण ईसाईधर्मस्य बीजारोपणकर्तुः मैकाले इति नाम्न आँग्लकूटनीतिकस्य दुरभिसन्धौ सहायकत्वेन प्रकटितः।

मैक्समूलरस्य समग्रं व्यक्तित्वं कर्तृत्वं च समीक्ष्यते चेत्तर्हि  ज्ञायते यत् मूलतः सः शिक्षाव्यसनी आसीत्। चतुर्वर्षात्मके वयसि पितुर्निधनानन्तरं षड्वर्षीये वयसि जर्मनीदेशस्य एकस्मिन् व्याकरणाध्ययनशालायां प्रवेशितः मैक्समूलरः प्रायः पञ्चदशवर्षाणि यावत् तुलनात्मकव्याकरणमधीतवान्। विंशतिवर्षात्मके वयसि उच्चशिक्षामवाप्य अनुसन्धानदृशा संस्कृतग्रीकलैटिनअरबीफारसीत्यादिप्राच्यभाषाणां तत्तद्वाङ्मयस्य च तुलनात्मकाध्ययनेन स भारतस्य भाषावाङ्मयवैभवेन प्रभावितः संस्कृतव्याकरणस्य वेदादिशास्त्राणां विशेषतः वेदानां धर्मशास्त्रस्य दर्शनव्याकरणमहाकाव्यादीनां च गभीरमध्ययनं चकार।

पाश्चात्यजगति तावत्कालं संस्कृभाषावाङ्मयेन विदुषामध्येतृणाञ्च विशेषपरिचयो नासीत्। षोडशशताब्दीपर्यन्तं यूरोपमहाद्वीपे संस्कृतस्य प्रचारो नासीत्। हेनरिथ राथ इति जर्मन धर्मगुरुः (1620-1668) आगरानगरमागतः ईसाईमिशनरीत्येतत्संस्थाकार्यमुद्दिश्य संस्कृतमधीतवान् 1662तमे ईसवीवर्षे च संस्कृतव्याकरणमधिकृत्य पुस्तकं लिखितवान्। सप्तदशशताब्द्यां 1651 ईसव्यां पुर्तगालदेशीयविदुषा भर्तृहरविरचितानां शतकानामनुवादः कृतः। 1779 तमे वर्षे विवादार्णवसेतुः इत्यस्याः विधिकसंहितायाः ‘A code of Gentoo Laws’ इति नाम्ना 1785तमे वर्षे च भगवद्गीतायाः आँग्लभाषया अनुवादो विहितः। एवं शनैः शनैः पाश्चात्यदेशेषु संस्कृतस्य प्रवेशोऽजायत। 1900 तमायां शताब्द्यां जर्मनी, फ्रांस, ब्रिटेन चेत्येतेषु देशेषु संस्कृतस्य अध्ययनक्षेत्रेऽतितरां रुचिरजायत। तत्राध्येतृणामुद्देश्यं पृथक्पृथगासीत्।

एतेषु केचन विद्वांसः निष्पक्षतया विद्याविलासिनः ज्ञानपिपासव आसन् केचन ईसाईधर्मसम्प्रदायस्य प्रचारार्थं संस्कृताध्ययनमाध्यमेन भारतस्य धार्मिकपृष्ठभूमिं ज्ञातुकामा आसन्। अन्ये विशेषतः ब्रिटिशशासकाः राजनीतिकोद्देश्येन भारतमभिभावयितुं भारतीयसंस्कृतेः महावटस्य मूले प्रहर्तुं संस्कृतस्याध्ययनेन तद्ग्रन्थानां भ्रष्टानुवादं प्रस्तूय विस्मृतात्मस्वरूपान् वराकान् भारतीयान् भ्रामयित्वा भारते ब्रिटिशसाम्राज्यस्य ईसाईधर्मस्य च मूलं दृढीकर्तुं धूर्ततापूर्णं प्रयासं चक्रुः।

समग्रेऽपि पाश्चात्य जगति मैक्समूलरः संस्कृतभाषायाः प्राच्यभारतीयविद्यायाः यथा व्यापकमध्ययनं लेखनं प्रचारप्रसारञ्च कृतवान् न तथा कश्चिदपरो विद्वान् कृतवानित्यत्र न विचिकित्सा कार्या। उक्तत्रिष्वपि पाश्चात्यविद्वद्वर्गेषु मैक्समूलरः कश्चित्तादृशो विद्वान् आसीद्यः स्वजीवने प्राच्यविद्याध्ययनस्यारम्भं विद्यापिपासुतया कृतवान्। यावच्छक्यं संस्कृतभाषायाः व्याकरणमधीत्य पाश्चात्यजिज्ञासूनध्यापयितुं ‘A Sankrit Grammer for Begginers’ इति पुस्तकं लिखित्वा संस्कृतव्याकरणस्य मुख्यविषयाः स्वपद्धत्या निरूपिताः। अस्य पुस्तकस्य भूमिकायां देवनागरीलिपेः नामकरणस्य विश्लेषणमपि स्वरीत्या कुर्वन्नसौ देवतानां नागरी हिन्दूनां विशेषलेखनशैली (style) प्रथमतया नगरेषु प्रयुज्यमानवर्णलेखनपद्धतिः इत्याद्यर्थेषु देवनागरीति लिपेः विश्लेषणं कृतवान्। पुस्तकस्यावलोकनेन ज्ञायते यन्मैक्समूलरः संस्कृतव्याकरणस्य विवेचने अन्यप्राच्यभाषाः  विशेषतः लैटिनव्याकरणं मनसि धृतवानासीत्। अपरमेतद्ध्यातव्यं यदेतद् संस्कृतव्याकरणस्य प्रारम्भिकपुस्तकमासीत् प्रौढं न।

प्राच्यभाषाणां भाषाशास्त्रीयमध्ययनं मैक्समूलरः निष्ठापूर्वकं कृतवानासीत्। तुलनात्मकरूपेण च तस्याभिमतमासीत् संस्कृतमजानन् तुलनात्मकभाषाशास्त्रस्य अध्येता तथैव यथा गणितज्ञानरहितः ज्योतिषी।

प्रायः मैक्समूलरः अन्ये पाश्चात्यविद्वांसः आरोप्यन्ते यत्ते संस्कृतं मृतभाषातया ख्यापितवन्तः किन्तु मैक्समूलरस्य Lectures of Science of Languages’ इति ग्रन्थस्यावलोकनेन ज्ञायते यदसौ भाषाणां विशेषतः संस्कृतस्य ऐतिहासिकपरिप्रेक्ष्ये अध्ययनपुरःसरम् एतन्निष्कर्षं विहितवान् यद्बौद्धधर्मस्य प्रादुर्भावात्पूर्वं संस्कृतं लोकभाषा आसीत्। बौद्धकाले तद्विरमितम्। यथोक्तम्-

Sanskrit, therefore, as a language spoken by the people at large, had ceased to exist in the third century b.c.

तस्य स्पष्टमतमासीद्यद्भारते अतीतकालाद्वर्तमानपर्यन्तं वारं वारं सामाजिकधार्मिकपरिवर्तने सत्यपि वैदेशिकैः आक्रान्ते सत्यपि केवलं संस्कृतमेव सा भाषा या इदानीमपि सम्पूर्णभारतवर्षे व्यापकतया भाष्यमाणा भाषा अस्ति। ‘Science of Languages’ इति विषयात्मिकायाः स्वस्य व्याख्यानमालायाः ‘Human Interest of Sanskrit Literature’ इति शीर्षकात्मके तृतीये व्याख्याने तस्यायं विचारो निबद्धीकृतः। 

Yet such is the marvellous continuity between the past and the present in India, that in spite of repeated social convulsions, religious reforms, and foreign invasions, Sanskrit may be said to be still the only language that is spoken over the whole extent of that vast country.

एवं मैक्समूलरस्य मतमासीद् यत्संस्कृतं मृतभाषा नास्ति अपितु सांस्कृतिकैतिहासिकपरिवर्तनजन्यपरिस्थितिवशात् अविद्यमानभाषा अस्ति।

To large multitudes in India, no doubt, Sanskrit literature was not merely a dead literature, it was simply non-existent. (तदेव)

स एतदपि स्वीकृतवान् यद्भारते आंग्लशासनस्य 100वर्षानन्तरमपि संस्कृतं दाँतेमहोदयस्य काले यूरोपे लैटिनभाषावबोधापेक्षया अधिकव्यापकक्षेत्रे अवगम्यते। यथा तत्रैव तृतीये व्याख्याने स उक्तवान्-

Even at the present moment, after a century of English rule and English teaching, I believe that Sanskrit is more widely understood in India than Latin was in Europe at the time of Dante.

सर्वासां भारतीयभाषाणामुद्गमः संस्कृतमेवेत्यपि मैक्समूलरः सम्यग्ज्ञातवान्। स विषयोऽपरो यदसौ ऑक्सफोर्डविश्वविद्यालयस्य बोडेनचेयर इति पदस्य प्राप्तेः वैयक्तिकमहत्त्वाकांक्षापणेन भारतस्य सांस्कृतिकाभिमर्षणमिष्यतो मैकालेहतकस्य करपुत्तलिकाभूतः   स्वस्य समग्रसंस्कृतभाषाज्ञानस्योपयोगं भारतीयसंस्कृतेः वैदिकधर्मस्य च मूलोच्छेदार्थं वैदिकवाङ्मयस्य भ्रष्टभाष्यरचनापणेन कृतवान्। यथा 15 दिसम्बर 1866तमे दिनाङ्के स्वपत्नीं प्रति लिखिते पत्रे असौ वेदभाष्यस्य यथार्थमुद्देश्यमभिव्यक्तवान्-   

I hope I shall finish that work, and I feel convinced, though I shall not live to see it, that this edition of mine and the translation of the Veda will hereafter tell to a great extent on the fate of India, and on the growth of millions of souls in that country. It is the root of their religion, and to show them what that root is, I feel sure, is the only way of uprooting all that has sprung up from it during the last three thousand years.”

भाषाविद्रूपेण मैक्समूलरः संस्कृतस्य व्याकरणिकप्रकृतिं भाषाशास्त्रीयप्रवृत्तीश्च ग्रीकलैटिनअरबीफारसीत्यादिप्राच्यभाषाणां परिप्रेक्ष्ये विश्लेषितवान्। प्राच्यविद्याविद्रूपेण च निःसन्देहं तस्य प्रवृत्तिः वेदोपनिषत्पुराणादीनामध्ययने भारतीयोपनिवेशे सायणादीनां भाष्यकाराणां मूलमन्तव्यमाच्छाद्य सोद्देश्यं तत्तद्वाङ्मयस्याभिप्रायस्य भ्रष्टतया व्याख्याने चासीत्। ऋग्वेदस्य अनुवादे भारतीयानां मते प्रामाणिकस्य सायणभाष्यस्य अनुवर्तनं विधीयता तेन साभिप्रायमजानता वा एकपक्षीयमतमुपस्थाप्य केवलमाधिभौतिकोऽर्थः किञ्च स्थूलशब्दार्थः प्रस्तुतः। मैक्समूलरः ‘Lecturs of the Origin and Growth of Religion’ (पृ. 245-246) इत्याख्य ग्रन्थे स्वयमुक्तवान् यद्वेदानामर्थः तेन स्वाभीष्टानुसारेण कृत्वा परम्परागतमेवार्थं नवीनरीत्या इव प्रस्तुतः। वेदानामपौरुषेयत्वं स्वीकुर्वतां भारतीयविदुषां नानाखण्डनमण्डनपरम्परामुपेक्ष्य 1500ईसवीपूर्वं वेदानां रचनाकाल इति प्रमाणीकर्तुं प्रयत्नशीलः सः परम्परासमर्थकं स्वामीदयानन्दं The representative of Indian Orthodoxy इति प्रख्याप्य वेदस्यैतिहासिकतायाः डिण्डिमं घुष्टवान्। एकं सद्विप्रा बहुधा वदन्ति इति वैदिकवचनस्य व्याख्यां बहुदेवतावादस्य नितान्तं स्थूलार्थतया कुर्वता तेन अस्याभिप्रायः विलक्षणबहुदेवतावादतया प्रस्तुतः यत्र तत्तद्देवताः भौतिकशब्दार्थमात्रं व्याप्नुवन्ति।

समासेन वक्तुं शक्यते यन्मैक्समूलरः यद्यपि संस्कृतवाङ्मयं परिश्रमपूर्वकमधीतवानित्यत्र न सन्देहः किन्तु विदेशीभाषात्वात् शास्त्रपरम्परापेक्षया गौणस्रोतोभिरध्ययनवशात् संस्कृतभाषायाः विशेषतः वैदिकसंस्कृतस्य स्वरूपगतप्रकृतिं मूलतो नावगतवान्। यथा स्वामी दयानन्दसरस्वती इङ्गितवानासीत्। अथ च शिक्षासमाप्त्यनन्तरं ब्रिटेनदेशं प्राप्य अतिशयमहत्त्वाकांक्षावशाद् विख्यातं बोडेनचेयर इत्येतन्नाम प्राच्यशिक्षाया आचार्यपदमभिलषन्नधीतविद्यां ब्रिटिशशासकानामपेक्षानुसारं पणीकृत्य बहुत्र विकृतरूपेण ऋग्वेदस्य भाष्यं भारतीयदार्शनिकसिद्धान्तानां विश्लेषणञ्च चकार। वैदिकवाङ्मये ऐतिहासिकदृष्टिः विकासवादस्य सङ्कल्पना भारतीयदार्शनिकधार्मिकसिद्धान्तेषु भ्रमजन्यवदतोव्याघाताश्चेति एतस्य प्रमाणिति वक्तुं शक्यते यत्कालान्तरे स स्वयमेव नैकेषु  बिन्दुषु भ्रान्त आसीत्। अथवा भारतवर्षस्य तत्कालीनायां राजनीतिकपरिस्थितौ अस्माकमेवास्त्रेणास्माकं मूलोच्छेदस्य षड्यन्त्रे मैकाले इत्यस्य लक्ष्यीभूतः सुधियां भारतीयविदुषां निन्दापदमगात्। सत्यपि आलोचनाविषयत्वे मोक्षमूलरः इति नाम्ना विदितः मैक्समूलरः यूरोपे एव नापितु आधुनिकभारतवर्षेऽपि संस्कृतस्याध्ययनद्वारमुद्घाटितवान्। अतस्तं प्रति कृतज्ञतापूर्वकमस्माभिः भारतीयपद्धत्या शास्त्रीयपद्धत्या वा संस्कृतभाषावाङ्मययोः माध्यमेन भाररतस्य मौलिकविद्यानुसन्धाने तत्प्रचारप्रसारे च यत्नवद्भिर्भिः भाव्यम्।