अन्ताराष्ट्रिय-मातृभाषा-दिवस:

अद्य निखिले विश्वे अन्ताराष्ट्रिय-मातृभाषा-दिवस: परिपाल्यते। मातृभाषादिवस-परिपालन-परम्परा अद्यत:  अष्टादश-वर्ष-पूर्वं  प्रारब्धा आसीत्।विश्वपटले अन्ताराष्ट्रिय- मातृभाषा-दिवस-प्रवर्तनस्य श्रेय: भारतस्य प्रतिवेशि-देशाय बांग्लादेशाय गच्छति ।भारतमेकं वैविध्यान्वितं राष्ट्रमस्ति। अत्र प्राय: प्रत्येकं राज्याणां पृथक्पृथग्भाषा: वर्तन्ते।
 
उपराष्ट्रपतिना श्रीवेंकैयानायडुना अवसरेSस्मिन् ट्वीटसन्देशे प्रोदितं यत्-

काश्चन अपि भाषा: तत्तत्पीठिकानां सृजनात्मकमनुभवमभिव्यक्तीकुर्वन्ति। अतः कस्याश्चिदपि भाषाया: ह्रास: मानव-रिक्थस्य ह्रास: भवति। समाजस्य सृजनात्मकताम् उज्जीवयितुं मातृ-भाषाणां, मातृभाषा-रचितस्य साहित्यस्य च  अध्ययनं कुर्वन्तु। तां तां च मातृभाषाम् उज्जीवयन्तु , समृद्धां च विधीयताम् ।