पुनरागतं स्वतन्त्रता दिनम्

पुनरागतं स्वतन्त्रता दिनम्

संयुक्ता ( प्रीति:) राजगोळिकर

 

कुवैत्

 

रचना दिनाङ्क: 

३०.०६.२०२०

 

पुनरागतं स्वतन्त्रता दिनम् ।

पुनरागतं स्वतन्त्रता दिनम् ।

प्रियभारतस्य स्वतन्त्रता दिनम् ।।

 

कुर्वन्ति किमर्थं कोलाहलम् ।

किमर्थम् आनन्दम् उत् उल्लसम् ।

अस्ति दिनस्य किं वा वैशिष्ट्यम् ।।

 

भूतकाले आसीत् भारतस्य गौरवम् ।

इदानीं तु एकं विकासिनं राष्ट्रम् ।

त्यक्त्वा यं गच्छन्ति सर्वे विदेशम् ।।

 

अलं रुदनेन ! अलं विलापनेन ।

एतं कथम् उक्तम् ? कथं विस्मृतम् ?

 

स्मराम: भारतस्य कालातितमहत्वम् ।

भारतस्य सौन्दर्यम् अपूर्वम् ।।

त्यागशौर्यस्य इतिहासं रचितम् ।

महान् राष्ट्रस्य निर्माणम् ।।

 

भवतु सर्वत्र निर्घोषम्

जयतु भारतं जयतु भारतम्

 

स्मारयाम: विश्वाय भारतस्य उपहारम् ।

सद्विचार: सदाचार: सज्जीवनदर्शनम् ।।

 

पुनर्दत्त्वा विश्वाय मार्गदर्शनम् ।

नीत्वा सर्वान् गच्छाम उत्कर्षमार्गम् ।

पुनर्वन्दे जगद्गुरुं भारतम् ।।

 

पुनर्नमाम प्रत्येकं सैनिकम्।

राष्ट्रहिताय दत्तं येन बलिदानम् ।।

स्मारयाम ऋगवेदस्य शब्दं सङ्गच्छध्वम्।

पश्यन्तु पुनरागतं स्वतन्त्रता दिनम् ।।

 

भवतु सर्वत्र निर्घोषम्

जयतु भारतं जयतु भारतम्

___________*****___________