दिल्लीस्थ जामिआ मिल्लिया इस्लामिआ विश्वविद्यालयस्य त्रिदिवसीय-राष्ट्रिय-संस्कृत-सम्मेलनम्

दिल्लीस्थ जामिया मिल्लिया इस्लामिया विश्वविद्यालयस्य संस्कृतविभागेन सद्य एव त्रिदिवसीयराष्ट्रियसंस्कृतसम्मेलनमनुष्ठितम्।  विश्वविद्यालयस्य संस्कृतविभागस्य प्रायः वर्षद्वयं सम्पूर्यते। यत्र एतन्निभ:संस्कृतस्य बृहत्तम-सम्मेलनायोजनस्य प्रथमोऽवसर: आसीत्। संस्कृतविभागाध्यक्षेण प्रो. गिरीशचन्द्रपन्तवर्येण प्रतिपादितं यत् ‘अस्मिन् सम्मेलने काश्मीरस्थ पुलवामायां दुरापन्नाक्रमणे वीरगतिङ्गतेभ्य: वीरभटेभ्य: देशस्य संस्कृतकविभि: विनम्रकाव्याञ्जलिपुरस्सरं श्रद्धाप्रसूनाञ्जलय: समर्पिता:। त्रिदिवसीयसम्मेलनस्य निष्कर्षत्वेन संस्कृतविभागाध्यक्ष: प्रो.गिरीशचन्द्रपन्त: न्यगदत् यत् ‘सम्प्रति देशे प्राथम्येन आकाशवाण्या: संस्कृतकेन्द्रस्थापनाया: परमावश्यकता वर्तते। यत: संस्कृतपत्रकारितायाम् अध्ययनरता: छात्रा: स्वीयसंस्कृतसम्प्रेषणीयतां सञ्चारसमर्हणीयतां च प्रामाणयितुं लब्धावसरा: भवेयु:।’  सम्मेलने संस्कृतजगत: विद्वद्भि: संस्कृतानुरागिभिश्च संस्कृतपत्रकारिताया: बृहत्तमायामानां विवरणपूर्वकं युवसंस्कृतपत्रकाराणां सूचनाप्रौद्यौगिकीयदृशा सशक्तीकरणसम्बन्धेऽपि महत्वपूर्णा परिचर्चा संजाता।