संस्कृत ऑन सिल्क रुट- डॉ. शशिबाला

चीनस्य विदेशमन्त्रिणा  वांग यी इत्यमुना  सार्धं भारतीयविदेशमन्त्रिणा श्रीमत्या सुषमास्वराज-वर्यया नवदिल्ल्यां  समनुष्ठिते भारत-चीन-सांस्कृतिक-संध्या-कार्यक्रमे एकमद्भुतं पुस्तकं लोकार्पितम्।  ‘संस्कृत ऑन  सिल्क रुट’  इत्याख्यामिदं पुस्तकं  विश्वविख्यातया प्राच्यविद्याविदुष्या परमसंस्कृतज्ञया डॉ. शशिबाला महोदयया सम्पादितमस्ति।  

इदं पुस्तकं नवदिल्लीस्थाद्भारतीयविद्याभवनत: प्रकाशितमस्ति।  चीनदेशीय-प्रान्तेषु संस्कृतस्य निगूढ-गम्भीर-मान्यता-परम्परा-स्रोतांसि पुस्तकेSस्मिन्नुद्घाटितानि सन्ति। 

चीनदेशस्य विदेशमंत्री वांग यी  उभयो: देशयो:  जन-जनेषु  मिथ: सम्पर्क-विषये उच्च-स्तरीय-तन्त्रस्य प्रथमोपवेशने  भागं भजीतुं भारतमागतोSस्ति। विषयममुं सन्दृभ्य असौ राष्ट्रपतिना रामनाथ कोविन्देन साकमपि सम्भाषणमकरोत्। चतुर्दिवसीय-यात्रावसरे चीनस्य विदेशमन्त्री औरंगाबादं, मुम्बयीञ्चापि गमिष्यति।

भारत-चीन-विदेशमन्त्रिभ्यां संस्कृत ऑन सिल्क रुट इत्याख्यं पुस्तकं लोकार्पितम् 

पुस्तकमिदं प्राच्यविद्याविदुष्या डॉ. शशिबालया सम्पादितमस्ति

पुस्तकेSत्र चीनदेशे परिव्याप्तनिगूढसंस्कृतपरम्परास्रोतांस्युद्घाटितानि 

1 thought on “संस्कृत ऑन सिल्क रुट- डॉ. शशिबाला”

Comments are closed.