मानवसंसाधनविकासमंत्रालयेन संस्कृतशिक्षाया: मानितविश्वविद्यालयत्रयं केन्द्रीयविश्वविद्यालयत्वेन प्रतिष्ठापयितुं प्रस्तावो निर्मित:।

मानवसंसाधनविकासमंत्रालयेन संस्कृतशिक्षाया: मानितविश्वविद्यालयत्रयं केन्द्रीयविश्वविद्यालयत्वेन प्रतिष्ठापयितुं प्रस्तावो निर्मित:। विवरणमिदं केन्द्रीयमानवसंसाधनविकासराज्यमन्त्रिणा सत्यपालसिंहेन प्रदत्तम्। एतेषु नवदिल्ल्या: राष्ट्रियसंस्कृतसंस्थानम्, श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतवद्यापीठम्, तिरुपतिस्थं राष्ट्रियसंस्कृतविद्यापीठं च वर्तन्ते।
संसदि एकस्मिन् लिखितोत्तरे मन्त्रिणोक्तं यत् ‘संस्कृतविदुषां शिक्षाविदाञ्च ध्यानीयां अनवरताध्यर्थनां निध्याय  मन्त्रालयेन  मानितविश्वविद्यालयान् केन्द्रीयविश्वविद्यालयत्वेन परिवर्तितुं प्रस्तावो निर्मित:। अस्योद्देश्य: संस्थानानां संस्कृत-शिक्षण-क्षेत्रे राष्ट्रियान्ताराष्ट्रियस्तरे प्रतिष्ठापनं वर्तते। एतदर्थं मन्त्रिमण्डलीयं विवरणपत्रमपि निर्मितमस्ति।