प्राच्यविद्याकोविद: स्टैंनली इंस्लरवर्य: निधनमुपगत:

८२ वर्षीय: स्टैनली इंस्लर वर्य:, येल विश्वविद्यालये संस्कृतस्य तुलनात्मकदर्शनशास्त्रस्य च विद्वान् आचार्य: आसीत्, असौ जनवरी पञ्चम्यां येल-स्थिते  ‘न्यू हेवन’ चिकित्सालये निधनमुपगत:। इंस्लरवर्य: स्वीय-पीठिकाया: प्रमुख: संस्कृतमनीषी आमान्यते स्म, असौ तन्निभो विद्वान्  आसीद् येन ऐतिहासिक-भाषा-विज्ञान-क्षेत्रे  भृशं योगदानं प्रदत्तम्।
इंसलरवर्येण प्राचीनभारतस्य ईरानदेशस्य च  साहित्यस्य, भाषाणां, संस्कृतशास्त्रीयग्रन्थानां, महाकाव्यानां, कवितानां, पालि-प्राकृत-ग्रन्थानां च विषये विस्तार-पूर्वकं भूरि भूरि लिखितमस्ति।