पुलवामाक्रमणम् यूएन महासचिवेन भृशं भर्त्सितम्

संयुक्त-राष्ट्र-महासचिवेन एन्तोनियो गुटेरेश-इत्यमुना भारतस्य कश्मीरस्य पुलवामा-जनपदे  केन्द्रीयारक्षितारक्षिबलस्य (सीआरपीएफ़) इत्यस्य  वृन्दे दुरापन्नातङ्क्याक्रमणम् भृशं भर्त्सितम्। अस्मिन्नाक्रमणे चतुश्चत्वारिंशद् अधिका: सुरक्षाभटा: वीरगतिङ्गता: आसन्। विवरणानुसारेण  एकेन आत्मघातिकारयानविस्फोटकेन दुरापादितेSस्मिन्नाक्रमणे सुरक्षाभटारूढ़बसयानं  लक्ष्यीकृतमासीत्।