छायाङ्कनदृश्याणि अभिव्यक्ते: सूचनानां च सर्वश्रेष्ठमाध्यमेषु अन्यतमानि सन्ति- उपराष्ट्रपति: श्रीवेंकैयानायडु:

उपराष्ट्रपतिना श्रीवेंकैयानायडुना ट्वीटसन्देशे प्रत्यपादि यत् ”फोटोग्राफी इति छायाङ्कनं न केवलं एकं सञ्चारोपकरणमस्ति, प्रत्युत जनचेतना-प्रसारणस्य प्रभावशालिमाध्यममप्यस्ति।छायाङ्कनविधयास्माभिरधिगम्यते स्वीय-कथाप्रकथनस्य, अपरेभ्य: तद्विषयक-विवरण-प्रदर्शनस्य, विश्वस्मिन्नपि विश्वे प्रसारणस्य च अनुमति:। ”

नवदिल्ल्यां  ‘वर्किंग न्यूज़ कैमरेंपर्सन एसोसिएशन’ द्वारा समायोजितां  “द बिग पिक्चर” इत्याख्यां पञ्चमीम् द्वै-वार्षिक-चित्र-प्रदर्शनीम्  उद्घाटयता  उपराष्ट्रपतिना श्रीवेंकैयानायडुना स्वीये औद्घाटनिके वक्तव्ये प्रतिपादितं यत्- एतन्निभा चित्रप्रदर्शनी महत्वपूर्ण-वार्ता-निर्माणस्य घटना: प्रकाशयति, सहैव  ऐतिह्यस्य स्मरणीयान् क्षणान्नपि अस्माकं पुरत: सजीवं चित्रयति।  चित्राणि अभिव्यक्तेस्सूचनायाश्च सर्वश्रेष्ठमाध्यमेषु अन्यतममस्ति। चित्राणां माध्यमेन *फोटो जर्नलिस्ट* चित्र-पत्रकारा:  स्वीय-चित्रपत्रकारिताद्वारा प्रस्तुतागण्य-घटनानामेकं प्रामाणिकं इतिवृत्तं प्रयच्छन्ति।एका सुप्रसिद्धा सूक्तिरपि प्रतिपादयति इदमेव तथ्यम्- ‘एकं चित्रं सहस्रशब्दैस्तुल्यं भवति । वस्तुत:, कतिपय चित्रवार्ता:  समग्रमपि इतिवृत्तमभिव्यक्तीकुर्वन्ति। अस्या: प्रदर्शन्या:  शीर्षकमपि  ‘द बिग पिक्चर’ इत्यस्ति यद्धि अन्वर्थकं  उपयुक्तञ्च वर्तते।

स्वीय-कर्तव्य-निर्वहनावसरे, वार्ता-छायाङ्कनकारा: बृहदापद्विपत्तीस्समेत्य बृहत्तरसमारोह-पर्यन्तमेका सुविस्तृता श्रृङ्खलां प्रस्तुवन्ति।  कतिपय-पर्यायेषु काठिन्यान्वित-दशानां, शत्रुता-समाह्वानपूर्ण-परिस्थितीनां च साम्मुख्यं कुर्वन्ति इमे चित्रपत्रकारा:। यद्यपि, काठिन्य-काठोर्य-सङ्कट-कण्टकै: परिपूर्णमार्गेषु सत्सु अपि इमे सर्वबाधाप्रशमनार्थं  सम्मुखम् आगम्यमाना:  घटना: चित्रयितुं नव्य-पीठिकासु तत्प्रापयितुं च संकलनस्य प्रयत्नान् कुर्वन्ति।
 
प्रियमित्राणि !, मदीयं मन्तव्यमस्ति यत्  फोटोग्राफी, इति छायाङ्कनं एका अतिशय सामर्थ्ययुता, सशक्ता च भाषास्ति, यद्धि अस्मदीया: भावना: सुतरामभिव्यनक्ति।

‘वर्किंग न्यूज़ कैमरेंपर्सन एसोसिएशन’ इत्यस्य अध्यक्ष: एस. एन. सिन्हा

ललितकला अकेदम्यां समायोजिताया:  अस्या: प्रदर्शन्या: अवसरे कार्यरता: वार्ताछायाङ्कनकर्तृ-अभिकरणस्य ‘वर्किंग न्यूज़ कैमरेंपर्सन एसोसिएशन’  इत्यस्य अध्यक्ष: एस. एन. सिन्हा न्यगदत् यत्  ‘अस्यां छायाचित्रप्रदर्शन्यां यानि छायाच्चित्राणि एषामपि छायाङ्कनकाराणां सन्ति, तत्तेषां यत्कार्यमस्ति  तद्धि सर्वभाषाणामुपरि वर्तते। यतोहि चित्रभाषा समस्तविश्वस्य वैश्विकी भाषास्ति। यद्यपि भवन्त: कामपि भाषां नैवाधिगच्छेयु: परन्तु चित्रभाषां नूनमेवाधिगच्छन्ति।  इमे चित्रसंग्राहका: छायांकनकारा:  एव छायाचित्रपत्रकारा: भवन्ति  एते स्वीय-कर्मभि: देशस्य दृश्यचित्र इतिहासं रचयन्ति।  इदं  डॉक्यूमेंटेशन इति यच्चित्रविवरणमस्ति तद्बृहत्तर-चित्र-विवरण-संकलनं देशाय महत्वपूर्णमस्ति।’