संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य
अद्य वयम् एकविंश्यां शताब्द्यां यदा भूमण्डलीकरणम् सम्मुखीकुर्म:, यदा समस्तमपि विश्वं ग्लोबल विलेज इति विश्वग्रामस्य परिकल्पनां चरितार्थयितुं प्रयत्नशीलमस्ति तदास्मिन् विकासशीले नूतने युगे नूतन-मध्यमानां वर्त्तते किमपि वैशिष्ट्यम्। माध्यमेषु अपि सम्प्रति जनसञ्चारस्य, प्रसारणस्य, पत्रकारितायाश्च महनीया भूमिका नितान्तमेव उपयोगिनी लाभप्रदा चास्तीति नास्ति भवतां विदुषाम् अविदितम्। साम्प्रतिकेSस्मिन् अत्याधुनिके काले पत्रकारिता जनजागरणस्य अभियानमेव न भूत्वा निज-स्वरूपमेव परिवर्त्य उद्योग: एव सिद्धोSस्ति। आधुनिक-सञ्चार- साधनोपकरण-मध्यमै:, प्रविधीनां च प्रयोगै: पत्रकारितापि नूतन-दिशि प्रवर्धतेतराम्।
अस्यां परिस्थितौ यदा न केवलं संस्कृत-सञ्चार-क्षेत्रे उत वा पत्रकारितायामेव प्रत्युत मानवजीवनस्य सर्वेषु क्षेत्रेषु अत्याधुनिकानां यन्त्राणां, मध्यमानां, साधनानाम्, उपकरणानां च प्राचुर्यमस्ति, युगपदेव पारस्परिकी प्रतिद्वन्द्वितापि समेधतेततमाम्। तदा संस्कृतभाषासन्निभा अत्यल्पप्रचलिता काठिन्येन जीवन्तीयं भाषा नूनमेव शोचनीयास्ति जाता। तत्रापि संस्कृत-मध्यमानां वार्तमानिक-स्थितिरस्ति विचारणीया। इदं तु विदन्ति एव भवन्तः यद् भारतीय-समाजस्य स्थिति: निरन्तरमेव परिवर्तमानास्ति। समाजे, राष्ट्रे च नैक-विधा: प्रकल्पा:, अनुष्ठानानि च जाजायन्ते यद्धि आधुनिक-विश्वमञ्चेन साकं स्कन्धेन स्कन्धं योजयित्वा आत्मानं विश्वञ्चे प्रतिष्ठापनार्थमपि नितान्तमेवावश्यकमस्ति। अत: एतादृशानां सर्वविध-गतिविधीनां, प्रकल्पानां च जनसामान्येषु तत्तत्भाषामाध्यमेन सम्प्रापणाय अत्यन्तमेव उपकारकानि भवन्ति उपकरणानि, साधनानि, माध्यमाश्च,। एतेष्वपि पत्रकारिता अन्यतमत्वेन वर्त्तते। अतोSहमादौ मुख्यत: पत्रकारिताविषये एव अत्र किंचिद्वदामि।
पत्रकारिता-माध्यम-विषये इदमस्माभि: अवधेयं यत् यस्मिन् समाजे या भाषा जनै: सम्भाष्यते अवबुध्यते, तस्मिन् समाजे तस्यामेव भाषायां पत्रकारिता पल्लविता पुष्पिता च भवितुं शक्नोति, भवत्यपि। फलत: अद्यत्वे भारते संस्कृतभाषाया: ज्ञातार:,प्रयोक्तारश्च इतरभाषाणाम् वेत्तृणाम् अपेक्षया वर्तन्ते न्यूना: । अत: संस्कृत-पत्रकारिताया: संवर्धनस्य वार्ताया: तु का कथा, अपितु पत्रकारिता-संचालकानामपि प्रबुद्धानामभाव:, अल्पता च दृश्यते। अनेनैव कारणेन वर्तमान-युगे संस्कृतपत्रकारिताया: स्थिति: अत्यन्तमेव शोचनीयास्ति। अस्या: शोचनीयताया: मुख्यकारणमस्ति संस्कृतज्ञानां संख्याबलस्य अल्पता। साकमेव यानि यानि पत्राणि, पत्रिका: वा संस्कृतमाध्यमेन प्रकाश्यन्ते तेषां, तासां च जन्मानसेषु उचितरीत्या, नियमिततया च नैवोपपादनम्, जनानाम् अभिरुचे: अभावश्च।
अतः अस्यां दशायां सफल-संस्कृत-पत्रकारितायै पत्रकारिताया: आधुनिक-पद्धतिभि:, तन्त्रीयप्रविधिभि:, यान्त्रिकविधाभिश्च साकं परिचय: आवश्यको जायते। यथा साहित्यं समाजस्य दर्पणो भवति तथैव पत्र पत्रिकासु प्रकाशिता: वार्ताश्चापि समाजस्य दर्पणत्वेन एव अभिस्वीकर्तुं शक्यन्ते। यतोहि वार्ता: समाजस्य गतिविधिभि: साकं सामाजिक-जनान् एव सर्वतोदृशा परिचाययन्ति। परन्तु संस्कृतपत्रकारिताक्षेत्रे प्राय: एतेषां विषयाणामभाव: दृश्यते। संस्कृतपत्रकारितायां अधिकाँश-पत्र-पत्रिकासु केवलं संस्कृत-जगतो वार्ता: प्रकाश्यन्ते उतवा यस्मात् संस्थानात् ता: पत्रिका: , तत्पत्राणि वा प्रकाश्यमानानि सन्ति तत्संबद्धा: वार्ता:, अथवा अन्येषां तादृशानामेव क्षेत्रीयसंस्थानानां सङ्कुचिता: वार्ता: प्रकाश्यन्ते। अतः एतासां पठने सर्वसाधारणा: रुचिमन्तो न भवन्ति। अतः एतदावश्यकमस्ति यत् सामाजिक-स्वरूपानुरूपं समनुष्ठितक्रियाकलापानां संस्कृत-पत्रकारिता-माध्यमेषु अपि व्यापकतया, प्रभावितया च तदनुरूपमेव परिवर्तनस्य कार्यं भवेत्। संस्कृत-पत्रकारिता-क्षेत्रे क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया: एतत्सूक्तेरनुसारेण नावीन्यस्य, गतिशीलतायाश्चापि समावेशो भवेत्। केवलं संगोष्ठीनां विवरणम्, विदुषां प्रशस्तय:, पर्वोत्सवानां सूचना:, विषयगतशोधानुसन्धानानां शोधालेखा:, चेत्यादीनामेव विषयाणां प्रकाशनेन संस्कृत-पत्रकारिता सङ्कुचिता जातास्ति। वर्तमान-समयेSपि एतेषामेव उपरिवर्णितानां विषयाणां प्रकाशनं संस्कृत-पत्रकारितायां बाहुल्येन दरीदृश्यते। अतः मम मते संस्कृत-पत्रकारै: इमां प्राचीन-परम्परामतिरिच्य प्रतीचीन-पत्रकारिता-माध्यम-विधिभि: कार्यविधानमाचरणीयम्, येन वर्तमान-काले घटिता:, संवेदनशीला:, बहुचर्चिता:, घटनाश्चापि संस्कृत-पत्रकारितामाध्यमेन अभिव्यक्तीकृता: भवेयु:। इत्थं समाजस्य जागरणे संस्कृत-पत्रकारितामाध्यमानां महती भूमिकापि समाज-समक्षमायास्यति। संस्कृतं विश्वस्य प्राचीनतमा भाषास्ति अतः नैतन्निराकर्तुं शक्यते यत् प्राचीनकाले पत्रकारिता नासीद् विद्यमाना इति। चत्वारो वेदा:, अष्टादश पुराणानि, नैके संस्कृतग्रन्थाश्च इदं प्रमाणयितुं पर्याप्तास्सन्ति यत् तत्कालिक-समाजेSपि भाषीय-सञ्चारस्य पूर्वपीठिकात: नव्यपीठिकां यावत् प्रसारणम्, विस्तारणञ्च जायते स्म। वस्तुतः पत्रकारिताया: पर्याय: एव वर्त्तते अनेक-जनेषु सामाजिक-क्रियाकलापानां, विश्वं परित: घटित-घटनानां साक्षात्संवादद्वारा, सञ्चारद्वारा, आलेखद्वारा, सम्प्रेषणद्वारा च अविरलाविरतगत्या सञ्चालनेन तद्विषये समुचितज्ञानस्योपपादनम्। किन्तु साम्प्रतिके परिवेशे संस्कृत-पत्रकारिताया: परिस्थितिसु भूरि परिष्काराणामावश्यकता वर्त्तते।
१. यावदहं जानामि साम्प्रतं यावत् संस्कृत-पत्रकारिता केवलं संस्कृत प्रचाराभियानस्य उद्देश्यमात्रेण तत्तत्संस्थाभि:, निज-निज-कार्यक्रमाणां सूचना-प्रदानार्थं विधीयते।
२. कतिपय-पत्रिका: केवलं शैक्षणिक-शोधालेख-प्रकाशनस्य इतिकर्तव्यतामेव निर्वहन्त्यो विद्यन्ते।
३. संस्कृत-सामान्य-पत्र-पत्रिकासु समाजे घटितानां समाज-सम्बद्धानां सामाजिक-घटनानां नितान्तमेवाभाव: दृष्टिपथमायाति।
इत्थं स्पष्टमेवास्तीदम् अस्माकं पुरत: यद् वार्ता: समाजे घटितानां घटनानां विवरणस्य सम्प्रेषणीय-माध्यमद्वारा प्रकाशनस्य पद्धतिरेवास्ति, यस्य प्रभाव: देश-काल-परिस्थिति-परिवेशेषु त्वरितमेव जायते। अतः संस्कृत-पत्रकारितायां एतादृश्य: सामाजिक-घटना: अपरिहार्यत्वेन सन्ति समावेशनीया:। ताश्च घटना: केवलं शुष्क-तथ्यत्वेन एव न भवेयु:, प्रत्युत पाठकानां सुख-दुःख-परिवेश-भावनासु प्रभावकर्यश्च स्यु: इत्यपि अस्माभिरवधेयम्। एतदर्थं संस्कृतपत्रकारिता-जगता अधोलिखितांशा: सन्त्यवधेया:
१. वार्तानां चयनं यथासम्भवं जनहितं निध्याय एव करणीयम्।
२. वार्ता-सम्पादनमुत्तरदायित्वपूर्णम् सूचनाप्रदं च भवेत्
३. शीर्षकमत्यन्तमाकर्षकं भवेत्
४. शीर्षकस्य भाषा सहजा, सशक्ता, प्रभावकरी च भवेत्।
५. सम्पादनं कलात्मकं भवेत्।
६. भाषीय-त्रुटि: अक्षम्यास्ति अतः त्रुटीनां पौन: पुन्येन निरीक्षणम् कर्तव्यम्।
७.वार्ता-सम्पादने सत्यनिष्ठा, विश्वसनीयता, दूरदर्शिता, स्पष्टवादिता, आत्मानुशासनता, गतिशीलता, रचनात्मकता, निष्पक्षता चेत्यादिगुणा: सन्त्यवधेया:। इमे गुणा: एव पत्रकारिताया: आभूषणानि सन्ति।
८. एकस्य वस्तुन: कृते अनेकाभिधानानां प्रयोग: नैवास्त्युचित:।
९. उत्तेजनात्मका: वार्ता: परिहेया:।
१०. लोकप्रिया: वार्ता: नूनमेव प्रकाशनीया:
एतत्तु मुद्रित-संस्कृत-पत्रकारिताया: कृते अत्यावश्यक-परिचर्चास्ति। एतदतिरिच्य वर्तमान-समाजं संवीक्ष्य रेडियो लेखनं, वार्ता-प्रसारणमपि ध्यनास्पदमस्ति, रेडियो पत्रकारिताया: अभिवृध्यर्थं समृध्द्यर्थं च वर्त्तते महती आवश्यकता अस्य मध्यमस्य। वार्ता-पत्र-पत्रिकासु प्रकाशित-सामग्री पाठकै: पठ्यते, तत्रैव रेडियो-वार्ता:, संवादाश्च प्रसारक-मुख–प्रकथनेन प्रसार्यन्ते, श्रोतृजनैश्च श्रूयन्ते। अतः उभयो: लेखनशैल्यामपि भवति भिन्नता निश्चप्रचम्।
युगपदेव सम्प्रतिक-समये दूरदर्शनं, यूनालिका, वेबफलकं, चेत्यादि-माध्यमाश्चापि जनसामान्येषु सन्ति लोकप्रियतातिशयतां गता:। एतेषु माध्यमेषु अपि संस्कृतकार्यक्रमाणां निवेश: भवेदित्यस्ति सम्प्रतिकी आवश्यकता। यतो हि (टेलीविजन कम्प्यूटर) दूरदर्शन-संगणक प्राविधिक-माध्यमै: यावज्जवीयस्या गत्या समाजं चमत्कृत्य लोकप्रियताया: चर्मोत्कर्षे इमे माध्यमा: वर्तन्ते तेन ममाभिमतमस्ति यत् विद्युदाणविक-सञ्चार-माध्यमै: जनसामान्याश्चापि सम्पूर्ण-विश्वेन समं संयुक्ता: सन्ति। येन जनानां वार्तापठनस्य प्रवृत्तिरपि न्यूनीभूतास्ति। अतः दूरदर्शन-यूनालिका-पत्रकारिता-माध्यमेष्वपि संस्कृतस्य समावेश: नितान्तमेवावश्यक: प्रतीयते।
एतदर्थमेवात्र संस्कृतपत्रकारिताया: माध्यमानामभिवृद्धये केचन विन्दव: उपस्थाप्यन्ते।
१. पत्रकारिताया: स्तर: समर्हणीय: भवेत्।
२. गुणवत्ताया: समेधनमपेक्ष्यते।
३. संस्कृतपत्रकारितायाश्चापि प्रशिक्षणकेन्द्राणि प्रतिष्ठापायितव्यानि।
४. समाजेन साकं संस्कृतपत्रकारिताया: तत्कालमेव भवतु संयोजनम्।
५. संस्कृतपत्रकारिता-प्रशिक्षणमपि भूरिमात्रायां समारब्धं भवेत्।
६. पत्रकारिताकौशलार्थं साञ्चारिक-भाषानुवादस्य प्रशिक्षणारम्भो भवेत्।
७. कार्टून इति व्यंग्यचित्राणि अपि संस्कृतमाध्यमेन प्रकाश्येरन।
८. संस्कृत-पत्रकारिता चापि व्यावसायिकी भवेत्।
युगपदेव समाजोचितविषया: घटनाश्च वार्तासु समावेशिता: स्यु: तदर्थमवधेयास्पदा: केचन विन्दव: इत्थं सन्ति अनुकरणीया:
१. सामाजिकसमस्याधारिता पत्रकारिता
२. शैक्षिक-पत्रकारिता
३. आपराधिक-पत्रकारिता
४. साहित्यिक-पत्रकारिता
५. चलच्चित्र-मनोरञ्जनात्मक-पत्रकारिता
६. (मार्केटिंग) आपणाधारिता पत्रकारिता
७. राजनैतिक-पत्रकारिता
८. विकासात्मक-पत्रकारिता
९. विश्वव्यापि-प्रतिस्पर्धात्मक-पत्रकारिता
१०. स्वास्थ्याधारिता पत्रकारिता
११. क्रीडाधारिता पत्रकारिता
१२. पुराचीनदृष्टिपूर्वकं अर्वाचीनदिशि वर्धनस्य पत्रकारिता।
अन्ते चाहमिदमेव कथयामि यत् संस्कृत-पत्रकारिताया:, तन्माध्यमानां च जनसामान्येषु प्रतिष्ठापनाय सर्वादौ संस्कृतभाषा जनभाषात्वेन स्थापनीयास्ति संस्कृतानुरागिभि:। जनैरधिकादधिकम् अवगम्येत तादृशी सरला, सहजा, सुबोधा, च भाषा प्रयोजनीया व्यवहरणीया वा। साम्प्रतिक-पत्रकारितायां पत्राणां, पत्रिकाणां, दूरदर्शन-,यूनालिकादि वैद्युतिक-सञ्चार-माध्यमानामुपरि ध्यानेन पश्याम: चेत् दृश्यते यत् समग्रेSपि भारते कस्याश्चापि एकस्या: भाषाया: पत्रकारिता प्रतिष्ठापिता नास्ति। किमधिकम् आंग्लभाषा सदृशी तथाकथिता व्यावसायिकी भाषापि अखिल-भरतीय-पत्रकारिताया: भाषामाध्यमेन नैवास्ति संस्थापिता। किन्त्वहं दृढतया कथयितुं शक्नोमि यत् यदि समस्तोSपि संस्कृत-समाज: एकीभूय अद्यतनाधुनिक-यान्त्रिक-प्रविधिभि: साकं पत्रकारिता-पटले संस्कृत-पत्रकारिताम् अखिल-भारतीय-स्तरे प्रतिष्ठापयितुं सम्भूय कार्यरतो जायते चेत् तद्दिनं नास्ति दूरे यदा भरते सर्वत्र चतुर्दिक्षु संस्कृत-पत्रकारिताया: विजयघोष: भवेत्। पुनरपि अहं संस्कृतपत्रकारितामाध्यमानां समेधनाय संगच्छध्वं संवदध्वं सं वो मनांसि जायतां इति वैदिकसूक्तस्य अनुकरणस्य आवश्यकतास्ति इत्युदीर्य स्वकीयां वाचमुपसंहरामि।