करोनासंकटे विश्वे
डॉ.राजेन्द्र त्रिपाठी ‘ रसराज‘
रचना दिनाङ्क:
३०.०६.२०२०
करोनासंकटे विश्वे ,विषाणुर्मारयति लोकम् ।
असाध्योऽयं महारोगो मनुष्यो धारयतिशोकम् ।। १ ।।
कुतो जात: कथं व्याप्त:, समस्ते दीर्घलघुराष्ट्रे ।
प्रवासे प्राणिनो हत्वा पिशाच: पीडयति मोदम् ।। २ ।।
निषिद्धै रेलबसयानैर्जनै: शून्य: सकलमार्ग: ।
निवासे नागतानां हृदि निषेधो वर्द्धयति कोपम् ।। ३ ।।
करौ प्रक्षाल्य बहुश: भो! मुखञ्चाच्छाद्य वस्त्रेण ।
निदेशं शासनाल्लब्ध्वा प्रदेशो वारयति दोषम् ।। ४ ।।
गृहे संरुध्य मासद्वय- करोनारोगशमनार्थम् ।
जनैरनुपालनं दृष्ट्वा प्रधानो घोषयति तोषम् ।। ५ ।।
प्रवासे निर्धना: श्रमिका गृहं गन्तुं समीहन्ते ।
विना यानं पदन्यासैः प्रयाण: पादयति घोरम् ।। ६ ।।
विदेशे व्याप्तसंक्रमणं स्वदेशं छादयति परित: ।
परस्परदूरवासादप्युपाय: नाशयति रोगम् ।। ७ ।।
असाध्यां हापदं ज्ञात्वा शिव: कुर्याद्धि कल्याणम् ।
महामारीं निहन्तुं प्रेरयति नः भारतं योगम् ।। ८ ।।
___________*****___________