वार्ताः

एतद्वर्षीयश्चीन-भारतयोस्संयुक्तयुद्धाभ्यास: ‘हैंड-इन-हैंड’

भारत-चीनयो: सैन्यबालानां मध्ये  सैन्यकूटनीतिं संपर्क-संवर्धनं च सन्दृभ्य प्रतिवर्षमेव  ‘हैंड-इन-हैंड’ इत्याख्यो युद्धाभ्यास: समनुष्ठीयते ।  ऐषम: संयुक्तयुद्धाभ्यास: चीनस्य चंगतू मध्ये दिसम्बर-मासस्य 10 त: 23 दिनाङ्क-पर्यन्तं प्रचलिष्यति । सेनयोरुभयो: मध्ये  नेदिष्ठ-सम्बन्धस्थापनं, सम्पर्कसमेधनञ्च  अस्य युद्धाभ्यासस्य लक्ष्यमस्ति ।  देशद्वयस्य सैन्यगुल्मानां मध्ये संयुक्तयुद्धाभ्यासेन सामर्थ्य-संवर्धनमपि जायते । अस्मिन् युद्धाभ्यासे संयुक्तराष्ट्रस्य अधिदेशान्तर्गतमन्ताराष्ट्रियातङ्कवादं निर्मूलयितुं,  भीकरवादस्य परिस्थितिं सम्मुखीकर्तुं च सामरिकस्तरस्य सञ्चालनमपि समाविशति ।

एतद्वर्षीयश्चीन-भारतयोस्संयुक्तयुद्धाभ्यास: ‘हैंड-इन-हैंड’ Read More »

राष्ट्रपते: रामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘दि रिपब्लिकन एथिक’ अथ च ‘लोकतन्त्र के स्वर’ इत्यनयो: पुस्तकयो: लोकार्पणम्

दिसम्बरस्य अष्टमे दिने नवदिल्लीस्थे विज्ञानभवने राष्ट्रपते: श्रीरामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘लोकतंत्र के स्वर’ अथ च ‘द रिपब्लिकन एथिक’ इत्याख्ययो: पुस्तकयो: लोकार्पणम् उपराष्ट्रपति: एम. वेंकैयानायडु: करिष्यति ।  सूचनाप्रसारणमन्त्रालयस्य प्रकाशनविभागेन पुस्तके प्रकाशिते स्त:। इदं पुस्तकद्वयं राष्ट्रपते: प्रथमवर्षस्य कार्यकालावधौ तस्य त्रिचत्वारिंशदुत्तर-द्वि-शत भाषणेभ्य: प्रचितानां पञ्चनवति भाषणानां सङ्ग्रहो विद्यते ।  पुस्तकद्वयमिदं  राष्ट्राय सम्बोधनम्, भारतस्य वैविध्यम्, विश्वस्य वातायनम्, शिक्षितभारतम्, सक्षमभारतम्, जनसेवाया: धर्म:, रक्षकाणां सम्मान:,विधे: मूलभावना, विशिष्टतायै मान्यता चेति अष्टभागेषु विभाजितं वर्तते ।

राष्ट्रपते: रामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘दि रिपब्लिकन एथिक’ अथ च ‘लोकतन्त्र के स्वर’ इत्यनयो: पुस्तकयो: लोकार्पणम् Read More »