श्रीजगन्नाथपञ्चकम्

श्रीजगन्नाथपञ्चकम्

डॉ.शशिकान्ततिवारी शशिधर’

रचना दिनाङ्क: २३.०६.२०२०

 

रमेशश्चक्रेश: फणपतिशयान: प्रभुवर:

सुरेशस्सिद्धेश: कमलदलनाभोऽम्बुसदृश: ।

हरिर्दीनानाथस्सुरपतिविभुर्भक्तवशगो

जगन्नाथो देवो भवतु मयि कृष्णोऽद्य मुदित: ।। १ ।।

 

जगद्भर्ता पूज्यस्सकलसुखकर्त्ता प्रभुरसौ

जगत्सृष्टेर्मूलो भवविभवदाता सुरवर: ।

जगत्सत्यस्वामी लसतु हृदये यादवपति:

जगन्नाथो देवो भवतु मयि कृष्णोऽद्य मुदित: ।। २ ।।

 

विरिञ्चिस्सेवायां तव भवति लग्नश्च नितरां

हरस्त्वां ध्याने स्वे प्रतिपलमहो पश्यति हरिम् ।

त्वदीयं माहात्म्यं कथयति सदा नारदमुनि:

जगन्नाथो देवो भवतु मयि कृष्णोऽद्य मुदित: ।। ३ ।।

 

अहं भक्तस्स्वामी त्वमसि मम देवश्शिवकर:

सुतोऽहन्ते तातस्त्वमसि मम सम्पालकवर: ।

प्रजाहन्ते राजा त्वमसि मम संरक्षकवर:

जगन्नाथो देवो भवतु मयि कृष्णोऽद्य मुदित: ।। ४ ।।

 

रथाऽरूढं दृष्ट्वा तव सुखदरूपं मन इदं

वशे नैवं सत्यं कुरु मयि दयां पादपतिते ।

जगत्त्यक्त्वा प्राप्तस्तव शरणसिन्धुस्तव शशी

जगन्नाथो देवो भवतु मयि कृष्णोऽद्य मुदित: ।। ५ ।।

 

जगन्नाथस्य देवस्य पञ्चकं य: पठेन्नर:

श्रद्धया भक्तिभावेन तस्मिन्विष्णु: प्रसीदति ।।

___________*****___________