धिक्तं जगच्छत्रुं !!!

धिक्तं जगच्छत्रुं !!!

डॉ. अरविन्दकुमारतिवारी

रचना दिनाङ्क: 

०१.०७.२०२० 

इमं चीनं द्विषं धिक्तं जगच्छत्रुं महानीचं ।

करोनाजन्मदं धिक्तं जगच्छत्रुं महानीचम् ।। १ ।।

 

विपत्तौ पातयित्वायं समस्तं हन्त संसारं ।

विपन्नं चाकरोद् धिक्तं जगच्छत्रुं महानीचम् ।। २ ।।

 

मदीयं राष्ट्रमेतद् वक्रदृष्ट्या लोकते गृद्ध्रः।

न जानीते बलं धिक्तं जगच्छत्रुं महानीचम् ।। ३ ।।

 

प्रहर्तुं काङ्क्षति प्रायः महानीचः कुचीनोsयं ।

खलं खर्वं रुषा धिक्तं जगच्छत्रुं महानीचम् ।। ४ ।।

 

अयं कश्चिच्च सीम्नि प्रेषयन् सैन्यं श्रुतो भिक्षुः ।

विषाणोर्वर्द्धकं धिक्तं जगच्छत्रुं महानीचम् ।। ५ ।।

 

दरिद्रश्चापरो विहसन् शठः  सम्भाषते मित्रं ।

कटूक्त्या श्रूयते धिक्तं जगच्छत्रुं महानीचम् ।। ६ ।।

 

स्वेदेशोsभ्यर्च्यतां रागाद् विदेशो हीयतां रोषात् ।

 

करोनोद्भावकं धिक्तं जगच्छत्रुं महानीचम् ।। ७ ।।

___________*****___________