आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति।

आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति। प्रस्तावस्य स्वीकृते: पश्चात् गोधूमपिष्टचूर्णस्य निर्यात: प्रतिबंधित: भविष्यति, येन दैशिकापणेषु गोधूमपिष्टचूर्णस्य मूल्यवृद्धौ नियंत्रणं सुगमं भविष्यति। साकमेव समाजस्य नि:शक्त-वर्गीय-जनानां कृते खाद्यसुरक्षा सुनिश्चिता भविष्यति। रूस-यूक्रेन-देशौ गोधूमस्य बृहत्तमौ निर्यातकौ देशौ स्त:। एतौ देशौ विश्वे गोधूमस्य चतुर्थांशं यावत् आपूर्तिम् कुरुत: । एतयोः देशयो: मध्ये प्रवर्तमान-संघर्ष-कारणेन गोधूमस्य आपूर्ति: प्रभाविता अस्ति। अत एव अन्ताराष्ट्रियापणेषु भारतीय गोधूमस्य याच्ञा वृद्धिङ्गतास्ति। परिणामत: दैशिकापणेषु गोधूमपिष्टचूर्णस्य मूल्येषु वृद्धि: जाता अस्ति। सर्वकारेण खाद्य-सुरक्षां सुनिश्चेतुम् अस्मिन् वर्षे मई मासे गोधूमस्य निर्याते प्रतिबन्ध: प्रवर्तित: आसीत्।
भारतीय गोधूमस्य निर्याते प्रतिबंध प्रर्वतनस्य अनन्तरम् अन्ताराष्ट्रियापणेषु गोधूमपिष्टचूर्णस्य याच्ञा वृद्धिङ्गतास्ति। अस्मिन् वर्षे अप्रैल- त: जुलाई-मासं यावत् गतवर्षस्य तुलनायां गोधूमपिष्टचूर्णस्य निर्याते प्रतिशतं द्वि-शत-मिता वृद्धि: पञ्जीकारितास्ति। परिणामत: दैशिकापणेषु गोधूमपिष्टचूर्णस्य मूल्येषु वृद्धि: जाता अस्ति।
गोधूमपिष्टचूर्णस्य निर्यातप्रतिबन्धस्य प्रस्ताव:
नि:शक्तजनानां कृते खाद्यसुरक्षा सुनिश्चिता भविष्यति