संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत:।

संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत: । परमाणु-अप्रसार-सन्धे: उद्देश्य: परमाणु-अस्त्राणां प्रसारस्य निषेधी-करणम् अस्ति। प्रति-पञ्च-वर्षम् अस्य परमाणु-अप्रसार-सन्धे: समीक्षा विधीयते। रूस-देशेन यूक्रेन-देशस्य परमाणु संयन्त्राणां, विशेष-रूपेण ज़ापोरिज्जिया इति क्षेत्रस्य निकटे सैन्य-गतिविधीनां विषये गंभीरा चिंता प्रकटिता अस्ति। येन तेन परमाणु-अप्रसार-सन्धे: प्रस्तावे आपत्ति: व्यक्तीकृता अस्ति। संयुक्तघोषणास्वीकरणाद्रूसदेश: पृथग्भूत: परमाण्वप्रसारसन्धिप्रस्तावे आपत्ती रुसस्य