विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति।

विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति। डॉक्‍टर राजकुमार-रंजन-सिंहस्य आसियान सचिवालयस्य, इंडोनेशिया देशस्य च एषा प्रथमा यात्रा अस्ति। द्वि-दिवसीय-यात्रा अवसरे, आसियान-सचिवालयस्य कार्यक्रमान् अतिरिच्य, श्रीसिंह: इंडोनेशिया देशेन साकं द्विपक्षीय सम्बन्धान् सुदृढीकरणे अपि मन्त्रणां करिष्यति। श्रीसिंह: भारतीय-प्रवासि-जनैः साकमपि सम्भाषणम् आचरिष्यति। विदेश-राज्य-मन्त्री आसियान-भारत-वार्ता- सम्बन्धानां त्रिंशत्तमीं वर्षग्रन्थिमुपक्ष्य आसियानस्य महासचिवेन श्री लिम जॉक होई इत्यमुना सह विश्वविद्यालयानां आसियान-भारत सञ्जालस्य उद्घाटनमपि करिष्यति। अस्य सञ्जालस्य घोषणा प्रधानमन्त्रिणा नरेन्द्र-मोदिना अष्टादशोत्तर-द्वि-सहस्र-तमे वर्षे आसियान-भारत-स्मारक-शिखर-सम्मेलने विहिता आसीत्। एतत् संस्थानं भारतस्य आसियान-सदस्य-देशानां च मध्ये शैक्षणिक-अनुसंधान-संस्थानानां मध्ये सहभागिताया: माध्यमेन ज्ञानराशे: मुख्य सञ्जालं सज्जीकरिष्यति। एतत् सञ्जालं भारतस्य नालन्दा-विश्वविद्यालय-द्वारा आसियान-समूहस्य च आसियान विश्वविद्यालय-सञ्जाल-द्वारा कार्यान्वितं विधीयते।