राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या:वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्।

राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या: प्रतिवेशि-राज्येषु परालीति प्रज्वालनस्य कारणेन विशेषरूपेण शीतकाले वर्धिष्यमाण-वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्। मुंबय्याम् एकस्मिन् आयोजने असौ प्रावोचत् यत् इंडियन ऑयल समवायेन हरियाणाया: पानीपत-मध्ये एक-लक्ष-लीटर मितस्य बायो-एथेनॉल इन्धनस्य, सार्ध-शत टन-मितस्य बायो-बिटुमेन इत्यस्य च दैनिकोत्पादन-क्षमता-युता परियोजना प्रारब्धा अस्ति। श्री गडकरी उदैरयत् यद् अनेन उत्पादनेन देश: ईंधनस्य विषये आत्मनिर्भर: भविष्यति। असौ उक्तवान् यत् ये कृषकाः परालीति ज्वालयन्त: सन्ति, तेभ्य: बायो-एथेनॉल इत्यस्य बायो-बिटुमेन इत्यस्य उत्पादनार्थं प्रति-टन-भारम् द्वि-सहस्र-रूप्यकाणि प्रदातुं शक्यते। श्रीगडकरी ट्री बैंक इति वृक्ष-वर्धन-कोश-विषये अपि सूचितवान् यत् निज-क्षेत्रे हरीतिमा-विवर्धनस्य कृते उपायरता: नगर-निगमा:, नगर-परिषद:, ग्राम पंचायताश्च पुरस्करिष्यन्ते। परालीति प्रज्वालने गडकरिण: वक्तव्यम् वायुप्रदूषणे चिन्तां प्रकाशितवान् गडकरी