एशियाचषकक्रिकेट्स्पर्धाशृङ्खला

ऐषम: एशिया-चषकीय-क्रिकेट्-स्पर्धा-शृङ्खलायाः प्रारम्भ: ह्य: श्रीलंका-अफगानिस्तानयो: मध्ये क्रीडितेन द्वन्द्वेन सञ्जातः। यत्र अफगानिस्तान-देशेन एशिया-चषक-क्रिकेट्-स्पर्धा-शृङ्खलाया: प्रथमे द्वन्द्वे श्रीलंकादलं पराभूतम्। अफगानिस्तान-देशेन पूल-बी इति वर्गस्य द्वन्द्वे अष्ट-क्रीडकै: विजयम् अधिगम्य क्रिकेट्-स्पर्धा-शृङ्खलायाम् उत्कृष्ट: प्रारम्भ: कृत: अस्ति। ध्येयम् अस्ति यद् ऐदम्प्रथम्येन अफगानिस्तान-दलेन विंशतिं प्रतिविंशतिः क्रिकेट्-स्पर्धायां श्रीलंकादलं पराजेतुं साफल्यम् अधिगतम् अस्ति। प्रथमं क्रीडता श्रीलंका-दलेन पञ्चोत्तर-एकशतं धावनाङ्का: एव समर्जिता: आसन्। प्रत्युत्तरे अफगानिस्तानेन दश कन्दुक-क्षेप-चक्रेषु एव षड् उत्तरैक-शतं धावनाङ्कान् अर्जित्वा स्पर्धा स्वायत्तीकृता। एतदर्थं रहमनुल्लाह गुरबाज: सर्वाधिकान् चत्वारिंशत् धावनाङ्कान् रचितवान्। हजरतुल्लाह जजई चापि सप्त त्रिंशद् धावनाङ्कान् अर्जितवान् । इब्राहिम जादरान: पञ्चदश धावनाङ्कान् अर्जितवान्। तत्रैव नजीबुल्लाह जादरान: धावनाङ्क-द्वयमेव अधिगतवान्। ध्येयम् अस्ति यत् एषा शृङ्खला श्रीलंकायां आयोजनीया आसीत्, किन्तु देशे आर्थिकसंकट कारणेन शृङ्खला संयुक्त अरब अमीरात देशे आयोज्यते। साम्प्रतिक: विश्वविजेतृदलं भारतम् अद्य निजाभियानस्य प्रारम्भं चिरप्रतिद्वंद्विना पाकिस्तानेन सह करिष्यति।