भल्लक्षेपणे नीरजस्य स्वर्णिम-साफल्यम्

क्रीडा-क्षेत्रे भारतस्य कृते मोदावहो विषयो वर्तते यत् टोक्यो ओलंपिक क्रीडा-स्पर्धानां स्वर्ण-पदक-विजेता नीरज-चोपड़ा लुसाने डायमंड लीग सम्मेलने दशमलवोत्तर शून्य अष्टाधिक-नवाशीति-मीटर-मितं दूरं यावत् सर्वश्रेष्ठ-भल्ल-क्षेपणेन साकम् एकम् अपरमपि स्वर्णिम-साफल्यम् अधिगतवान्। भल्लक्षेपणे नीरजस्य स्वर्णिम-साफल्यम्
अपरत्र च भारतस्य कृते जूडो क्रीडायामपि प्रथमं स्वर्ण पदकम् आगतम्। महिलानां सप्त-पञ्चाशत्-किलोग्राम-भार-वर्गे कैडेट-विश्व-विजेतृ-स्पर्धायां स्वर्णपदकं विजित्य लिंथोई चनंबम इत्यनया इतिहास: विरचित:। कैडेट-विश्वविजेतृस्पर्धायां स्वर्णपदकम्